पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४] मिताक्षरासहिता । ३४५ गात्रमिति । अस्नां तु षष्टिसहितं शतत्रयमुपरितनषट्श्लोक्या वक्ष्यमाणमवग न्तव्यम् ॥ ८४ ॥ स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः । पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् ।। ८५ । । किंच । स्थालानि दन्तमूलप्रदेशस्थान्यस्थीनि द्वात्रिंशतैः सह द्वात्रिंशद्दन्ता श्चतुःषष्टिर्भवन्ति । नखाः करचरणरुहा विंशतिर्हस्तपादस्थानि शलाकाकाराण्य स्थीनि मणिबन्धस्योपरिवर्तीनि अङ्गुलिमूलस्थानि विंशतिरेव । तेषां नखाना शलाकास्वां च स्थानचतुष्टयं द्वौ चरणौ करौ चेत्येवमस्वां चतुरुत्तरै शतम् ॥ ८५ ॥ षष्टयङ्गलीनां द्वे पाष्ण्योर्गुल्फेषु च चतुष्टयम् । चत्वार्येरन्निकास्थीनि जङ्घन्योस्तावदेव तु ।। ८६ ।। किंच । विंशतिरङ्गुलयस्तासां एकैकस्याखीणि त्रीणीत्येवमङ्गुलिसंबन्धीन्यस्थीनि षष्टिर्भवन्ति । पादयोः पश्चिमेौ भागौ पाष्णीं तयोरस्थीनि द्वे एकैकस्मि न्पादे गुल्फौ द्वावित्येवं चतुषु गुल्फेषु चत्वार्यस्थीनि, बाह्वोरलिप्रमाणानि चत्वार्यस्थीनि, जङ्कयोस्तावदेव चत्वार्येवेत्येवं चतुःसप्ततिः ॥ ८६ ॥ द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे । अक्षतालूषकश्रोणीफलके च विनिर्दिशेत् ॥ ८७ ॥ किंच । जङ्घोरुसन्धिजनुः, कपोलो गलः, ऊरुः सक्थि तत्फलकं, ऑसो भुजशिरः, अक्षः कर्णनेत्रयोर्मध्ये शङ्कादधोभाग , तालषकं काकुदं, श्रोणी ककुद्मती तत्फलकं, तेषामेकैकत्रास्थीनि द्वे द्वे विनिर्दिशेदित्येवं चतुर्दशास्थीनि ८७ भगास्थ्येकै तथा पृष्ठ चत्वारिंशच पञ्च च । ग्रीवा पञ्चदशास्थिः स्याञ्जत्र्वेकैकं तथा हनुः ॥ ८ ॥ किंच । गुह्यास्थ्येक पृष्ठे पश्चिमभागे पञ्चचत्वारिंशदस्थीनि भवन्ति । ग्रीवा कंधरा सा पञ्चदशास्थिः स्यात् भवेत् । वक्षोंसयोः सन्धिर्जत्रु प्रतिजत्रु एकैकम्, हनुश्चिबुकम् । तत्राप्येकमस्थीत्येवं चतुःषष्टिः ॥ ८८ ॥ तन्मूले द्वे ललाटाक्षिगण्डे नासाघनास्थिका । पार्श्वकाः स्थालकैः सार्धमर्जुदैश्च द्विसप्ततिः ।। ८९ ।। किंच । तस्य हनोर्मुलेऽथिनी द्वे । ललाटं भालं अक्षि चक्षुः गाण्डः कपोला क्षयोर्मध्यप्रदेशः तेषां समाहारो ललाटाक्षिगण्डं तत्र प्रत्येकमस्थियुगुलम् । नासा घनसंज्ञकास्थिमती । पार्श्वकः कक्षाधःप्रदेशसंबद्धान्यस्थीनि तदाधारभूतानि स्थालकानि तैः स्थालकैः अर्बुदैश्चास्थिविशेवैः सह पार्श्वका द्विसतिः । पूर्वोत्तैश्च नवभिः सार्धमेकाशीतिर्भवन्ति ॥ ८९ ॥