पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ याज्ञवल्क्यस्मृतिः। १ तथाष्टम ड. [ प्रायश्चित्ताध्यायः नाडीभिर्वायुवाहिनीभिः खायुभिरस्थिबन्धनैः शिराभिर्वातपित्तश्लेष्मवाहिनीभिश्च संयुतः । तथाष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ८१ ॥ पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति । अष्टमे मास्यतो गभो जातः प्राणैर्वियुज्यते ।। ८२ ।। किंच । तैस्याष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषो धात्रीं गर्भ च प्रति पुनःपुनरतितरां चञ्चलतया शीघ्र गच्छति । अतोऽष्टमे मासि जातो गर्भः प्राणैः र्वियुज्यते । अनेनौजःस्थितिरेव जीवनहेतुरिति दर्शयति ॥ ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम्-‘हृदि तिष्ठति यच्छुद्धमीषदुष्णं सपीतकम् । ओजः शरीरे संख्यातं तन्नाशान्नाशमृच्छति ॥’ इति ॥ ८२ ॥ नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव यत्रच्छिद्रेण सज्वरः ।। ८३ ॥ किंच । एवं करचरणचक्षुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासे अपि शब्दात्प्रागपि सप्तमेऽष्टमे वा अत्यायासादिदोषवत्प्रबलसूतिहेतुप्रभञ्जनप्रेरितस्रा यवस्थिचमदिनिर्मितवपुर्यत्रस्य छिद्रेण सूक्ष्मसुषिरेण सज्वरो दुःसहदुःखाभिभू यमानो निःसार्यते धनुर्यत्रेण सुधन्वप्रेरितो बाण इवातिवेगेन निर्गमसमनन्तरं चव बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति । ‘जातः स वायुना स्पृष्टो न स्मरतेि पूर्व जन्म मरणं कर्म च शुभाशुभम्’ इति निरुक्तस्याष्टादशेऽभिधानात् ॥८३॥ कायस्वरूपं विवृण्वन्नाह तस्य षोढा शरीराणि षट् त्वचो धारयन्ति च । षडङ्गानेि तथास्श्चां च सह षष्ठया शतत्रयम् ।। ८४ ।। तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादि षड्धातुपरिपाकहेतुभूतषडनिस्थानयोगित्वेन । तथा ह्यन्नरसो जाठराझिना पच्यमानो रक्ततां प्रतिपद्यते । रक्तं च स्वकोशस्थेनाग्निा पच्यमानं मांसत्वम् । मांसं च स्वकोशानलपरिपकं मेदस्त्वम् । मेदोऽपि स्वकोशवह्निना पकमस्थिताम् । अस्थ्यपि स्वकोशशिखिपरिपकं मज्ज्ञात्वम् । मजापि स्वकोशपावकपरिपच्यमान श्वरमधातुतया परिणमते । चरमधातोस्तु परिणतिनस्तीति स एवात्मनः प्रथम कोशः । इत्येवं षट्कोशाग्यिोगित्वात् षट्प्रकारत्वं शरीराणाम् । अन्नारसरूपस्य तु प्रथमधातोरनियतत्वान्न तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट् त्वचो धारयन्ति रक्तमांसमेदोऽस्थिमज्जाशुक्राख्या षड् धातव एव रम्भास्तम्भत्वगिव बाह्याभ्यन्तररूपेण स्थिताः त्वगेिवाच्छादकत्वात्वचस्ताः षड् त्वचो धारयन्ति । तदिदमायुर्वेदप्रसिद्धम् । तथाङ्गानि च षडेव करयुग्मं चरणयुगलमुत्तमाङ्गं