पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः । तेषां सलिलं गोवालावघर्षणं च शुद्धिसाधनम् । इयं च शुद्धिर्भिक्षाचरणादिप्रयोगाङ्गभूता नामेध्याद्युपहृतिवि. षया । तदुपघाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या । अतएव मनुना (६॥५३)- अतैजसानि पात्राणि तस्य स्युर्निर्वणानि च । तेषामद्भिः स्मृतं शौचं चमसाना मिवाध्वरे ॥’ इति । वमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर्दर्शिता । पात्रान्त राभावे भोजनमपि तत्रैव कार्यम् । ‘तद्वैक्ष्यं गृहीत्वैकान्ते तेन पात्रेणान्येन वा तूष्णीं प्राणमात्रं भुञ्जीते'ति देवलस्मरणात् ॥ ६० ॥ एवंभूतस्य यतेरात्मौपासनाङ्गं नियमविषयमाह संनिरुद्धयेन्द्रियग्रामं रागद्वेषौ प्रहाय च । भयं हित्वा च भूतानाममृतीभवति द्विजः ।। ६१ । । चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यङ्गिरुध्य विनिवत्र्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा शब्दादीष्र्यादीनपि तथा भूतानामपंकारेण भय मकुर्वन् शुद्धान्तःकरणः सन्नद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥ ६१ ॥ कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः । ज्ञानोत्पत्तिनिमित्तत्वात्स्वातञ्यकरणाय च ।। ६२ ।। किं च । विषयाभिलाषद्वेषजनेितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धि कल्मषक्षयः प्राणायामैः कर्तव्या । तस्याः शुद्धेरात्माद्वैतसाक्षात्काररूपज्ञानोत्प त्तिनिमित्तत्वात् । एवंच सति विषयासक्तितज्जनितदोषात्मकप्रतिबन्धक्षये सत्या त्मध्यानधारणादौ स्वतत्रो भवति । तस्माद्भिक्षुकेण त्वेषा शुद्धिर्विशेषतोऽनु छेया । तस्य मोक्षप्रैधानत्वात् । मोक्षस्य च शुद्धान्तःकरणतामन्तरेण दुर्लभ त्वात् । यथाह मनुः (६॥७१)-‘दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहातू ॥’ इति ॥ ६२ ॥ इन्द्रियनिरोधोपायतया संसारस्वरूपनिरूपणमाह आवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा । आधयो व्याधयः केशा जरारूपंविपर्ययः ॥ ६३ ॥ भवो जातिसहस्रषु प्रियाप्रियविपर्ययः । वैराग्यसिद्धार्थ मूत्रपुरीषादिपूर्णनानाविधगर्भवासा आवेक्षणीयाः पर्यालोच नीयाः । चशब्दाजनोपरमावपि । तथा निघिद्धाचरणादिक्रियाजन्या महारौर वादिनिरयपतनरूपा गतयः । तथाधयो मनःपीडाः, व्याधयश्च ज्वरातीसाराद्याः शारीराः, केशाः अविद्यामितारागद्वेषाभिनिवेशः पञ्च, जरा वलीपलिताद्य भिभवः, रूपविपर्ययः खञ्जकुछत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा १ भिक्षाहरणप्रयोग ङ. २ अपकारणेन ड. ३ मोक्षप्रसाधनत्वात् ङ.४ रूपविपर्ययाः ङ