पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । ३३९ श्वसूकरखरोरगाद्यनेकजातिषु भव उत्पत्तिः । इष्टस्याप्राप्तिः अनिष्टस्य प्राप्ति रित्यादिबहुतरकेशावहं संसारस्वरूपं पर्यालोच्य तत्परिहारार्थमात्मज्ञानोपाय भूतेन्द्रियजये प्रयतेत ॥ ६३ ॥ एवमवेक्ष्यानन्तरं किं कार्यमेित्यत आह ध्यानयोगेन संपश्येत्सूक्ष्म आत्मात्मनि स्थितः ।। ६४ ।। योगश्चित्तवृत्तिनिरोधः आत्मैकाग्रता ध्यानं एव तस्या बाह्यविषयत्वोपरमः ध्यानयोगेन निदिध्यासतापरपर्यायेण सूक्ष्मशरीरप्राणादिव्यतिरिक्तः क्षेत्रज्ञ आत्मा आत्मनि ब्रह्मण्थवस्थितः इत्येवं तत्त्वंपदार्थयोरभेदं सम्यक् पश्येद्परो क्षीकुर्यात् । अतएव श्रुतौ ‘आत्मा वारे द्रष्टव्यः’ इति साक्षात्काररूपं दर्शनम नूद्य तत्साधनत्वेन ‘श्रोतव्यो मन्तव्यो नेिद्विध्यासितव्यःश्रवणमनननिदि ' इति ध्यासनानि विहितानि ॥ ६४ ॥ नाश्रमः कारणं धर्मे क्रियमाणो भवेद्वि सः । अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ।। ६५ ।। किंच । प्राक्तनश्लोकोक्तात्मोपासनाख्ये धर्मे नाश्रमो । दण्डकमण्डल्वाद्विधारणं कारणम् । यस्मादसौ क्रियमाणो भवेदेव नातिदुष्करः । तस्माद्यदात्मनोऽपथ्यमु द्वेगाकरं परुषभाषणादि तत्परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्तः करणशुद्धयापाद्नत्वेनान्तरङ्गत्वाद्भागद्वेषप्रहाणस्य प्रधानत्वेन प्रशंसार्थमाश्रमनेिरा करणं न पुनस्तत्परित्यागाय तस्यापि विहितत्वात् । तदुक्तं मनुना (६॥६६) ‘दूषितोऽपि चरेद्धर्म यत्र तत्राश्रमे वसन् । समः सर्वेषु भूतेषु न लिङ्गः धर्मकारणम् ॥” इति ॥ ६५ ॥ सत्यमस्तेयमक्रोधो ह्रीः शौचं धीधृतिर्दमः । संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ।। ६६ ।। किंच । सत्यं यथार्थप्रियवचनम् । अस्तेयं परद्रव्यानपहारः । अक्रोधोऽपका रिण्यपि क्रोधस्यानुत्पादनम् । हीर्लज्जा । शौचमाहारादिशुद्धिः । धीर्हिताहितः विवेकः । धृतिरिष्टवियोगेऽनिष्टप्राप्तौ प्रचलितचेित्तस्य यथापूर्वमवस्थापनम् । दमो मदत्यागः । संयतेन्द्रियता अप्रतिषिद्धेष्वपि विषयेष्वनतिसङ्ग । विद्या आत्मज्ञानम् । एतैः सत्यादिभिरनुष्ठितैः सर्वो धर्मोऽनुष्ठितो भवति । अनेन दण्डकमण्डल्वादिधारणबाह्यलक्षणात्सत्यादीनामात्मगुणानामन्तरङ्गतां द्योतयति ॥ ननु ध्यानयोगेनात्मनि पश्येदित्ययुक्तं जीवपरमात्मनोभेदाभा स्थितमात्मानं वादित्यत आह निःसरन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः । सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ।। ६७॥