पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४ ] . मिताक्षरासहिता । ३३७ परस्परम् । अपि पैशुन्यमात्सर्य सन्निकर्षान्न संशयः ॥’ इति । ‘परित्रज्य परिपूर्वो व्रजतिस्त्यागे वर्तते । अतश्चाहंममाभिमानं तत्कृतं च लौकिकं कर्मनिचयं वैदिकं च नित्यकाम्यात्मकं संत्यजेत् । तदुक्तं मनुना (१२॥८८-९२)-‘सुखाभ्युदयिकं चैव नैश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ इह वामुत्र वा काम्यं प्रवृत्तं कर्म कीत्यैते । निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते ॥ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तम । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यतवान् ।' इति । अत्र वेदाभ्यासः प्रणवाभ्यासस्तत्र यतवान् । भिक्षाप्रयो जनार्थ ग्राममाश्रयेत्प्रविशेत् न पुनः सुखनिवासार्थम् । वर्षाकाले तु न दोषः । ‘ऊध्र्वं वार्षिकाभ्यां मासाभ्यां नैकस्थानवासी' इति शङ्कस्मरणात् । अशक्तौ पुनर्मासचतुष्टयपर्यन्तमपि स्थातव्यं न विरमेकत्र वसेदन्यत्र वर्षाकालात् । श्रावणादयश्चत्वारो मासा वर्षाकालः' इति देवलस्मरणात् । –“एकरात्रं वसे ब्रामे नगरे रात्रिपञ्चकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांस्तु चतुरो वसेत् ॥’ इति काण्वस्मरणात् ॥ ५८ ॥ कथं भिक्षाटनं कार्यमित्यत आह अप्रमत्तश्चरेद्वैक्षं सायाहेऽर्नभिलक्षितः । रहिते भिक्षुकैग्रामे यात्रामात्रमलोलुपः ।। ५९ ।। अप्रमत्तो वाश्कक्षुरादिचापलरहितो भैक्षं चरत् । वसिष्ठनात्र विशेषो दर्शितः–“ससागाराण्यसंकल्पितानि चरेद्वैक्षम्’ इति । सायाहे अह्नः पञ्चमे भागे । तथाच मनुः (६॥५६)–“विधूमे सन्नमुसले व्यङ्गरे भुक्तवज्जने । वृत्ते शरावसंपाते नित्यं भिक्षां यतिश्चरेत् ॥' इति । तथा–“एककालं चरे द्विक्षाँ असंज्येन्न तु विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥’ इति । अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिह्नितः । मनुः (६॥५०)–‘न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षाँ लिप्सेत कर्हिचित् ॥' इति तेनोचकत्वादिति ॥ यत्पुनर्वसिष्ठवचनम्-‘ह्मणकुले वा यलभेत्तदुञ्जीत सायंप्रातर्मासवज्र्यम्’ इति । तद्दशक्तविषयम् । भिक्षुकैर्भिक्ष णशीलैः पाखण्डयादिभिर्वर्जिते ग्रामे । मनुनात्र विशेष उक्तः (६॥५१)

  • न तापसैब्रह्मणैर्वा वयोभिरपि वा श्वभिः । आवकीर्ण भिक्षुकैरन्यैरगारमुपसंत्र

जेतू ॥' इति । यावता प्राणयात्रा वर्तते तावन्मात्रै भैक्ष चरेत् । तथाच संवतैः-‘अष्टौ भिक्षाः समादाय मुनिः सप्त च पञ्च वा । अद्भिः प्रक्षाल्य ता सर्वास्ततोऽश्नीयाच वाग्यतः ॥' इति । अलोलुपो मिष्टान्नव्यञ्जनादिष्वप्रसक्तः ॥ भिक्षाचरणाथै पात्रमाह यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च । सलिलं शुद्धिरेतेषां. गोवालैश्चावघर्षणम् ।। ६० ।। १. नाभिलक्षित ङ . २ प्रसजेत् ड