पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ याज्ञवल्क्यस्मृतः । [प्रायश्चित्ताध्यायः न्कृत्वा मोक्षे मनः कुर्यत्-चतुर्थाश्रमं प्रविशेन्नान्यथा । अनेनानपाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायामधिकारं दर्शयति । यथाह मनुः (६॥३५)-‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो वजत्यधः ।।' इति । यदा तु ब्रह्मचर्यात्प्रव्रजति तदा न प्रजोत्पादनादिनियमः । अकृतदारपरि ग्रहस्य तत्रानधिकारात् रागप्रयुक्तत्वाच्च विवाहस्य । नच ऋणत्रयापाकरणविधिरेव द्वारानाक्षिपतीति शङ्कनीयम् । विद्याधनार्जननियमवदन्यप्रयुक्तदारसंभवे तस्या नाक्षेपकत्वात् । ननु ‘जायमानो वै ब्राह्मणस्त्रिभित्रक्ष्णवाञ्जायते ब्रह्मचर्येणर्षेिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति जातमात्रस्यैव प्रजोत्पादनादीन्यावश्यकानीति दर्शयति । मैवम् । नहि जातमात्रः अकृतदाराझिपरिग्रहो यज्ञादिष्वधिक्रियते तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठदिति तस्यार्थः । अतश्चोपनी तस्य वेदाध्ययनमेवावश्यकम् । कृतदाराष्ट्रिपरिग्रहस्य प्रजोत्पादनमपीति निर वद्यम् ॥ ५६ ॥ ५७ ॥ एवमधिकारिणं निरूप्य तद्धर्मानाह सर्वभूतहितः शान्तत्रिदण्डी सकमण्डलुः । एकरामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ।। ५८ ।। सर्वभूतेभ्यः प्रियाप्रियकारिभ्यो हित उदासीनो न पुनर्हिताचरणः । * हिंसानु ग्रहृयोरनारम्भी’ इति गौतमस्मरणात् । शान्तो बाह्यान्तःकरणोपरतः । त्रयो दण्डा अस्य सन्तीति त्रिदण्डी । ते च दण्डा वैणवा ग्राह्या । ‘प्राजापत्येष्टयनन्तरं त्रीन्वै णवान्दण्डान्मूर्धप्रमाणान्दक्षिणेन पाणिना धारयेत्सव्येन सोदकं कमण्डलुम्’ इति स्मृत्यन्तरदर्शनात्। एकं वा दण्डं धारयेत् ‘एकदण्डी त्रिदण्डी वा’ इति बौधा यनस्मरणात् । ‘चतुर्थमाश्रमं गाच्छेद्रह्मविद्यापरायण । एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जित ॥’ इति चतुर्विंशतिमते दर्शनाच । तथा शिखाधारण मपि वैकल्पिकम् । ‘मुण्डः शिखी वा' इति गौतमस्मरणात् मुंण्डोऽममोऽ क्रोधोऽपरिग्रहः’ इति वसिष्ठस्मरणात् । तथा यज्ञोपवीतधारणमपि वैकल्पिकमेच । ‘सशिखान्केशान्निकृन्त्य विसृज्य यज्ञोपवीतम्’ इति काठकश्रुतिदर्शनात् 'कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । केशान्यज्ञोपवीतं च त्यक्त्वा गूढश्रे न्मुनिः ॥’ इति बाष्कलस्मरणाच्च । ‘अथ यज्ञोपवीतमप्सुजुहोति भूःस्वाहेति अथ दण्डमादृते सखे मां गोपाय’ इति परिशिष्टदर्शनाच्च । यद्यशक्तिस्तदा कन्थापि प्राह्या । ‘काषायी मुण्डस्त्रिदण्डी सकमण्डलुपवित्रपादुकासनकन्थामात्र' इति देवलस्मरणात् । शौचाद्यथै कमण्डलुसहितश्च भवेत् । एकारामः प्रव्रजितान्तरे णासहायः संन्यासिनीभिः स्त्रीभिश्च । स्त्रीणां चैक इति बौधायनेन स्त्रीणामपि प्रव्रज्याख्मरणात् । तथाच दक्षः–‘एको भिक्षुर्यथोक्तश्च द्वावेव मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात ऊध्र्वतु नगरायते ॥ राजवार्तादि तेषां तु भिक्षावात १ शान्तः करणोपरतः क. २ मनोपरिग्रह. ड