वानप्रस्थधर्मप्रक०.३ ] मिताक्षरासहिता ३३३
- नत्तं वान्न समश्रीयाद्दिवा वाहृत्य शक्तितः । चतुर्थकालेिको वा स्याद्यद्वाप्यष्टम
कालिकः ॥’ इति । एतेषां च कालनियमानां स्वशक्तयपेक्षया विकल्पः ॥ ५० ॥ खप्यान्दूमौ शुची रात्रौ दिवा संप्रपदैर्नयेत् । स्थानासनविहारेश्र्वा योगाभ्यासेन वा तथा ।। ५१ ।। किंच । आहारविहारावसरवज्र्य रात्रौ शुचेिः प्रयतः स्वप्यात् नोपवेिशेन्नापि तिष्ठेत् । द्विास्वमस्य पुरुषमात्रार्थतया प्रतिषिद्धत्वान्न तन्निवृत्तिपरम् । तथा भूमावेव स्वप्यातू । तञ्च भूमावेव न शयान्तरितायां मञ्चकादौ वा । दिनं तु संप्रपदैरटनैर्नयेत् । स्थानासनरूपैर्वा विहारैः संचारैः कंचित्कालं स्थानं कंचिचो पवेशनमित्येवं वा दिनं नयेत् । योगाभ्यासेन वा । तथाच मनुः (६॥२९) विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः' इति । आत्मनः संसिद्धये ब्रह्मत्वप्रासये । तथाशब्दात्क्षितिपरिलोडनाद्वा नयेत् । (६॥२२)-भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्’ इति मनुस्मरणात् । प्रपदैः पादायैः ॥ ५१ ॥ ग्रीष्मे पञ्चाग्मिध्यस्थो वर्षासु स्थण्डिलेशयः । आईवासास्तु हेमन्ते शक्तया वापि तपश्चरेत् ॥ ५२ ॥ किंच । ‘ञ्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः’ इति दर्शनात् ग्रीष्मे चैत्रादि मासचतुष्टये चतसृषु दिक्षु चत्वारोऽझयः उपरिष्टादादित्य इत्येवं पञ्चानामझीनाँ मध्ये तिष्ठत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधारशवि निवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशीर्षादिमासचतुष्टये कुिछ वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश्चरेत् । यथा शरीरशोषस्तथा यतेत (६॥२४)-‘तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः' इति मनुस्मरणात् ॥ ५२ ॥ यः कण्टकैतुिदतेि चन्दनैर्यश्च लिम्पति । अकुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ।। ५३ ।। किंच । यः कश्चित्कण्टकादिभिर्विविधमङ्गानि तुदति व्यथयति तसै न कुध्येत्। यश्चन्दनादिभिरुपलिम्पति सुखयति तस्य न परितुष्येत् । किंतु तयोरुभयोरपि समः स्यादुदासीनो भवेत् ॥ ५३ ॥ अग्रीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः । वानप्रस्थगृहेष्वेव यात्रार्थ भैक्षमाचरेत् ॥ ५४ ॥ अमीनात्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स तथोक्तः मेिताशनः स्वल्पाहारः । अपिशब्दात्फलमूलाशनश्च भवेत् । यथाहं मनु