सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३:२ याज्ञवल्क्यस्मृतः । [ प्रायश्चित्ताध्याय पुनर्मध्यग्रहणं यज्ञार्हत्रीह्यादिप्रास्यर्थ कृतम् । मेधो यज्ञस्तदर्ह मेध्यमिति । तथा श्मश्रूणि मुखजानि रोमाणि जटारूपांश्च शिरोरुहान्कक्षादीनि च रोमाणि बिभूः यात् । रोमग्रहणं नखानामप्युपलक्षणम् । तथाच मनुः-‘जटाश्च बिभृया न्नित्यं श्मश्रुलोमनखांस्तथा’ इति । तथात्मवानात्मोपासनाभिरतः स्यात् ॥ ४६ ॥ पूर्वोक्तद्रव्यसंचयनियममाह अहो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य संचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥ ४७ ॥ एकस्याह्नः संबन्धि भोजनयजनादिदृष्टादृष्टकर्मणः पर्याप्तस्यार्थस्य संचयं कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्त संचयं कुर्यातं नाधिकम् । यद्येवं क्रियमाणमपि कथंचिदतिरिच्यते तर्हि तदतिरिक्तमाश्वयुजे मासेि त्यजेत् ॥ ४७ ॥ दान्तत्रिषवणस्रायी निवृत्तश्च प्रतिग्रहात् । खाध्यायवान्दानशीलः सर्वसत्वहिते रतः ॥ ४८ ।। किंच । दान्तो दर्परहितः । त्रिषु सवनेषु प्रातर्मध्यंदिनापराहेषु स्रानशीलः । तथा प्रतिग्रहे पराङ्मुखः । चशब्दाद्याजनादिनिवृत्तश्च । स्वाध्यायवान् वेदाभ्यास रतः । तथा फलमूलभिक्षादिदानशीलः सर्वप्राणिहिताचरणनिरतश्च भवेत् ॥ ४८ ॥ दन्तोलूखलिकः कालपक्काशी वाश्मकुट्टकः । श्रौत्रं स्मार्त फलस्रहैः कर्म कुर्यात्तथा क्रिया ॥ ४९ ।। किंच । दन्ता एवोल्लूखलं निस्तुषीकरणसाधनं दन्तोलूखलं तद्यस्यास्ति स वृन्तोलूखलिकः । कालेनैव पर्छ कालपवै नीवारवेणुश्यामाकादि बदरेङ्गदादिफलं च तदशनशीलः कालपक्काशी । वाशब् ‘अझिपकाशनो वा स्यात्कालपकभुगेव वा' इति मनूक्ताझिपकाशित्वाभिप्रायः । अश्मकुट्टको वा भवेत् । अश्मना कुट्टन मवहननं यस्य स तथोक्तः । तथा श्रौत्रं स्मार्त च कर्म दृष्टार्थाश्च भोजनाभ्यञ्जना ईदृक्रियाः लकुचमधूकाद्विमेध्यतरुफलोद्भवैः स्त्रेहद्रव्यैः कुर्यान्न तु घृतादिकैः । तथाच मनुः ( ६॥१३)–‘मेध्यवृक्षोद्भवानद्यात्तेहांश्च फलसंभवान्’ इति ४९ पुरुषार्थतया विहितद्विभजननिवृत्त्यर्थमाह चान्द्रायणैर्नयेत्कालं कृच्छैव वर्तयेत्सदा । पक्षे गते वाप्यश्रीयान्मासे वाहनि वा गते ।। ५० ।। चान्द्रायणैर्वेक्ष्यमाणलक्षणैः कालं नयेत् । कृच्छैर्वा प्राजापत्यादिभिः कालं वर्तयेत् । यद्वा पक्षे पञ्चदशदिनात्मकेऽतीतेऽश्रीयात् । मासे वाहनि गते वा नक्तमश्रीयात् । अपिशब्दाच्चतुर्थकालिकत्वादिनापि । यथाह मनुः (६॥१९)