आपद्धर्मप्रकरणम् २] मिताक्षरासहिता । ४२ ॥ ३२९ श्रयणाद्विगुणमपि स्वधर्मानुष्ठानमेव मुख्यमेिति दर्शितं भवति । तथाच मनुः ( १०॥९७)-‘ब्ररं स्वधर्मो वेिगुणोन पारक्यः स्वनुष्ठितः । परधर्माश्रयाद्विप्र सद्यः पतति जातितः ॥’ इति ॥ ४१ ॥ कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः । सेवानूपं नृपो भैक्षमापत्तौ जीवनानि तु ॥ ४२ ॥ किंच आपत्तौ जीवनानीति विशेषणात्कृष्यादीनां मध्ये अनापदवस्थायां यस्य या वृत्तिः प्रतिषिद्धा तस्य सा वृत्तिरनेनाभ्यनुज्ञायते । यथापदि वैश्यवृत्तिः स्वयै कृता कृषिर्विप्रक्षत्रिययोरभ्यनुज्ञायते एवं शिल्पादीन्यप्यस्याभ्यनुज्ञायन्ते । शिल्पं सूर्पकरणादि । भृतिः प्रेष्यत्वम् । वेिद्या भूमृतकाध्यापकत्वाद्या । कुसीददं वृद्धयर्थ द्रव्यप्रयोगः । ततू स्वयंकृतमभ्यनुज्ञायते । शकटं भाटकेन धान्याद्विहनद्वारेण जीवनहेतुः । गिरिस्तद्वततृणेन्धनद्वारेण जीवनम् । सेवा परचित्तानुवर्तनम् । अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः । तथा नृपो नृपयाचनम् । भैक्षं स्नातक स्यापि । एतान्यापत्तौ जीवनानि । तथाच मनुः (१०।११६)-‘विद्या शिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः । गिरिभैक्षं कुसीदं च दश जीवनहेतवः ॥ इत यदा कृष्यादीनामपि जीवनहेतूनामसंभवस्तदा कथं जीवनमित्यत आह बुभुक्षितस्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयमभियुक्तन धर्मतः ॥ ४३ ॥ धान्याभावेन त्रिरात्रं बुभुक्षितोऽनश्चन् स्थित्वा अब्राह्मणाच्छूद्रात्तदभावे वैश्यात् तदभावे क्षत्रियाद्वा हीनकर्मण एकाहपर्यासं धान्यैर्थमाहरेत् । यथाह मनुः (६॥११७)–‘तथैव ससमे भक्त भक्तानि षडनश्चता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥’ इति । तथाच प्रतिग्रहोत्तरकालं यद्दुपहृतं तद्धर्मतो यथा वृत्तमाख्येयम् । यदि नास्तिकेन स्वामिना त्वयेदं किं नामापहृतमित्यधियुज्यते । यथाह मनु -‘खलात्क्षेत्राद्गाराद्वा यतो वाप्युपलभ्यते । आख्यातव्यं तु ततस्मै पृच्छते यदि पृच्छति ॥’ इति ॥ ४३ ॥ इदमपरमापत्प्रसङ्गाद्राज्ञो विधीयते तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः । ज्ञात्वा राजा कुटुम्बं च धम्य वृत्तिं प्रकल्पयेत् ॥ ४४ ॥ योऽशैनायापरीतोऽवसीदति तस्य वृत्तमाचारै, कुलमाभिजात्यं, शीलमात्मगुणै, श्रुतं शास्रश्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छादि च परीक्ष्य राजा धर्मादन १ भैक्ष्यमापत्तौ ख. २ न्यप्यनुज्ञायन्ते ङ. ३ रूपकरणादि ङ . ४ धान्यं हरेत् ५ नाष्टिकेन ड. ६ ममापहृतमिति ख. ७ योशतया ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५७
दिखावट