पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतःि । [प्रायश्चित्तताध्यायः नारदेन वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि’ इति ब्राह्मणग्रहणं कृतम् ३६ ॥ ३७ ॥ ३८ प्रातप्रसवमाह धर्मार्थे विक्रयं नेयास्तिला धान्येन तत्समाः ।। ३९ ।। यद्यावश्यकाः पाकयज्ञादिधर्माः स्वसाधनत्रीह्यादिधान्याभावे न निष्पद्यन्ते तर्हि धान्येन तिला विक्रयं नेयाः । तत्समाः द्रोणपरिमिता द्रोणपरिमितेनेत्येवं तेन धान्येन समा । तथाचव मनुः (१०॥९०)-‘काममुत्पाद्य कृष्यात्त स्वयमेव कृषीवलः । विक्रीणीत तिलाञ्शुद्धान्धर्मार्थमचिरस्थितान् ॥' इति । धर्म ग्रहणमावश्यकभेषजाद्युपलक्षणम् । अतएव नारद -‘अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्समाः ॥’ इति यद्य न्यथा विक्रीणीते तर्हि दोषः । ( १०॥९१)-‘भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । कृमिभूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥' इति मनुस्मरणात् । सजातीयैः पुनर्विनिमयो भवत्येव । (मनुः १०॥९४)-‘रसा रसैर्निमातव्या नेत्वेव लवणं रसे । कृतान्न च कृतान्नेन तिला धान्येन तत्समा ॥’ इति । कृता सिद्धान्न तच कृतान्नेन परिवर्तनीयैम् । ‘कृतान्न चाकृतान्नेन' इति पाठे तु सिद्धमन्नमकृतान्नेन तण्डुलादिना परिवर्तनीयमिति ॥ ३९ ॥ पूर्वोक्तनिषिद्धातिक्रमे दोषमाह लाक्षालवणमांसानि पतनीयानि विक्रये । पयो दधि च मद्य च हीनवर्णकराणि तु ॥ ४० ॥ लाक्षालवणमाँसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्महानिक राणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि । एतव्यतिरिक्ता पण्यविक्रये वैश्यतुल्यता । यथाह मनुः ( १०॥९२-९३)-‘सद्यः पतति मौसेन लाक्षया लवणेन च । व्यहेण शूद्रेो भवति ब्राह्मणः क्षीरविक्रयात् ॥ इतरेषामपण्यानां विक्रयादिह कामत । ब्राह्मणः सप्तरात्रेण वैश्यभावं चें गच्छति ॥’ इति ॥ ४० ॥ आपदतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः । न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ४१ ॥ किंच । यस्त्वधनोवसन्नकुटुम्बतया आपद्धतोऽपि क्षत्रवृत्तिं वैश्यवृत्तिं वा न प्रविविक्षति स यतस्ततो हीनहीनतरहीनतमेभ्यः प्रतिगृहंस्तद्रुं भुञ्जानोऽपि वाँ एनसा पापेन न लिप्यते । यतस्तस्यामापदवस्थायामसत्प्रतिग्रहादावधिकारि त्वेन ज्वलनार्कसमः, यथा ज्वलनोऽर्कश्च हीनसंस्कारेऽपि न दुष्यति तथायमा पद्वतोऽपि न दुष्यतीत्येतावता तत्साम्यम् । एवंच वदता आपद्वतस्य परधर्मा १ कृष्यां तु क.ख. २ नत्वेवं लवणं ख. ३ नीयमिति यावत क.ख. ४ निगच्छति ख १५ हीनतरस्ततो ख. ६ वा नैवेनसा ख