पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ याज्ञवल्क्यस्मृतिः । (६॥२५)–“अझीनात्मनेि वैतानान्समारोप्य यथाविधि । अनग्रिनिकेतः स्यान्मुनिर्मूलफलाशनः ॥' इति । मुनिमेॉनत्रतयुक्तः । फलमूलासंभवे चव यावत्प्राण धारणं भवति तावन्मात्रं भैक्ष वानप्रस्थगृहेष्वाचरेत् ॥ ५४ ॥ यदा तु तद्दुसंभवो व्याध्यभिभवो वा तदा किं कार्यमित्यत आह ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः । ग्रामाद्वा भैक्षमाहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान्भुञ्जीत । ग्राम्यभैक्ष. विधानान्मुन्यन्ननियमोऽर्थलुसः । यदा पुनरष्टभिग्रसैः प्राणधारणं न संभवति तदा ‘अष्टौ ग्रासा मुनेभैक्षं वानप्रस्थस्य षोडशे'ति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ सकलानुष्ठान्नासमथ प्रत्याह [प्रायश्चित्ताध्यायः वायुभक्षुः प्रागुदीचीं गच्छेदा वष्र्मसंक्षयात् ॥ ५५ ॥ १ वीरराधानं ङ. अथवा वायुरेव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीमैशानीं दिशं गच्छेत् । आवष्र्मसंक्षयात् वष्र्म वपुस्तस्य निपातपर्यन्तमकुटिलगतिर्गच्छेत् । यथाह मनुः-(६॥३१) –“अपराजेितां वास्थाय गच्छेद्दिशमजिह्मगः’ इति । महा प्रस्थानेऽप्यशक्तौ भृगुपतनादिकं वा कुर्यात् ।–‘वानप्रस्थो वीरंध्वानं ज्वलना म्बुप्रवेशनं भृगुपतनं वानुतिष्ठेत्’ इति स्मरणात् । स्रानाचमनादिधर्मा ब्रह्म चारिप्रकरणाद्यभिहिताश्चाविरोधिनोऽस्यापि भवन्ति ।–“उत्तरेषां चैतदविरोचेि इति गौतमस्मरणात् । एवं प्रागुदितैन्दवादिदीक्षामहाप्रस्थानपर्यन्तं तनुत्यागा न्तमनुतिष्ठन्ब्रह्मलोके पूज्यतां प्राझोति । यथाह मनुः (६॥३ १ )–‘आसां मह र्षिचर्याणां त्यक्त्वान्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥' इति । ब्रह्मलोकः स्थानविशेषो नतु निलयं ब्रह्म । तत्र लोकशब्दस्याप्रयोगात् । तुरीयाश्रममन्तरेण मुक्त्यनङ्गीकाराच । नच ‘योगाभ्यासेन वा पुनः’ इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशङ्कनीया 1 सालोक्यादिप्रास्यर्थत्वे नापि तदुपपत्तेः । अतएव श्रुतैौ ‘त्रयो धर्मस्कन्धा' इत्युपक्रम्य ‘यज्ञोऽध्ययनं दानमिति प्रथमः, तप एवेति द्वितीयः, ब्रह्मचर्याचार्यकुलवासी तृतीयः । अत्यन्तः माचार्यकुल एवमात्मानमवसादयन्निति गार्हस्थ्यवानप्रस्थनैष्ठिकत्वस्वरूपमभिधाय सर्व एते पुण्यलोका भवन्तीति त्रयाणामाश्रमिणां पुण्यलोकप्रासिमभिधाय ब्रह्मसंस्थोमृतत्वमेति’ इति पारिशेष्यात्परिव्राजकस्यैव ब्रह्मसंस्थस्य मुक्तिलक्षणा मृतत्वप्राप्तिरभिहिता । यदपि “श्राद्धकृत्सत्यवादी चव गृहस्थोऽपि चिमुच्यते' इति गृहस्थस्यापि मोक्षप्रतिपादनं तद्भवान्तरानुभूतपारित्रज्यस्येत्यवगन्तव्यम् ॥ ५५ ॥ इति वानप्रस्थधर्मप्रकरणम् ।