पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १ ] मिताक्षरासहिता । ३२१ संग्रामे समुपोळ्हे राजानं संनाहयेत्’ (गृ. सू. ३।१२।१) इत्याश्वलायनाद्युक्त संनहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यःशुद्धिः । देशस्य विस्फोटादिभिरु पसर्गे राजभयाद्वा विश्वे तदुपशमनार्थे शान्तिकर्मणि सद्यःशौचम् । विष्ठवा भावेऽपि कचेिद्देशविशेषेण पैठीनसेिना शुद्धिरुक्ता–‘विवाहदुर्गयज्ञेषु यात्रायाँ तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ।।' इति । तथा कष्टायाम प्यापदि व्याध्याद्यभिभवेन मुमूर्षावस्थायां दुरितशमनार्थे दाने । तथा संकुचित वृत्तेश्च क्षुत्परिश्रान्तमातापित्रादिबहुकुटुम्बस्य तद्भरणोपयोगिनेि प्रतिग्रहे सद्य शुद्धिः । इयं च शुद्धिर्यस्य सद्यःशौचं विनात्र्युपशमो न भवति अश्वस्तनिकस्य तद्विषया । यत्स्वेकाहपर्याससंचितधनस्तस्यैकाहः, यस्यहोपयोगिसंचयी तस्य त्र्यहः, यस्तु चतुरहार्थमापादेितद्रव्यः कुम्भीधान्यस्तस्य चतुरहः, कुसूलधान्यक स्य दशाह इत्येवं यस्य यावत्कालमात्र्यभावस्तस्य तावत्कालमाशौचम् । आपदुपा धिकत्वादाशौचसंकोचवस्य । अतएव मनुना ( ४॥७ )–“कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा । त्र्यहेहिको वापि भवेदश्धस्तनिक एव वा ॥ इत्यत्र प्रतिपादितचतुर्विधगृहस्थाभिप्रायेण‘दशाहं सपिण्डेषु -शावमाशाचव विधीयते । अर्वाक्संचयनादस्वाँ त्र्यहमेकाहमेव वा ॥' इति कल्पचतुष्टयं प्रतिपादितम् । समानोदकविषयाश्च संकुचिताशौचकल्पाः पक्षिण्येकाहःसद्य शौचरूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयैव योज्याः । अयं चाशौच संकोचो येनैव प्रतिग्रहादिना विनार्तिस्तद्विषयो न सर्वत्रेत्यवगन्तव्यम् । मनुः-एकाहाब्राह्मणः शुद्धयेद्योऽग्वेिदसमन्वितः । ज्यहात्केवलवेदस्तु विहीनो दशभिर्दिनैः ॥’ इत्यादिस्मृत्यन्तरवचनपर्यालोचनयाध्ययनज्ञानानुष्ठानयोगिनां ञ्येकाहादिभिः सर्वात्मना शुद्धिरित्येवं कस्मात्रेष्यते ॥ उच्यते--'दशाहं शावमाशौचं सपिण्डेषु विधीयते’ इति सामान्यप्राप्तदशाहबाधपुरःसरमेव ह्येकाहाङ्गाह्मणः शुद्धयेदिति विधायकं भवति । बाधस्य चानुपपत्तिनिबन्धनत्वात् यावत्यबाधितेनुपपत्तिप्रशमो न भवति तावद्धाधनीयम् । अतः कियदनेन बाध्यमित्यपेक्षायामपेक्षितविशेषसमर्पणक्षमस्याग्मिवेदसमन्वित इति वाक्यविशेः षस्य दर्शनादृग्वेिदविषयेऽग्निहोत्रादिकर्मणि स्वाध्याये च व्यवतिष्ठते न पुनर्दाना दावपि । एवं चाग्वेिदपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्वेिदसाध्यं कर्म कृतं तयैकाहाच्छुद्धिरिति पुरुषविशेषोपलक्षणत्वमेव स्यात् । नचैतद्युक्तम् । एवंच सति-‘प्रत्यूहेन्नाझिषु क्रियाः । वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचो दिताः ॥' इति । तथा ब्राह्मणस्य च स्वाध्यायादिनिवृत्त्यर्थ सद्यःशौचमिलेयवमादि भिर्मन्वादिवचनैरेकवाक्यता भवति । तथाच –‘उभयत्र दशाहानि कुलस्यान्न न भुज्यते’ इति दशाहपर्यन्तै भोजनादिकै प्रतिषेधयद्भिर्यमादिवचनैरविरो धोऽपि सिद्धयति, अतः काचित्कमेवेदमाशौचसंकोचविधानं न पुनः सर्वसंव्यव हारादिगोचरमित्यलमतिप्रपञ्चन ॥ १ श्रुतेिचोदनात् घ. २ कवित्कर्मविशेषे इदं ख