पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः ऽप्युक्तम्—‘मूल्यकर्मकराः शूदा दासीदासास्तथैवच । खाने शरीरसंस्कारे गृहकर्मण्यदूषिताः ॥' इति । इयं च दासादिशुद्धिरपरिहरणीयतया प्रासस्पर्श विषयेत्यनुसंधेयम् । अतएव स्मृत्यन्तरम्--'सद्यःस्पृश्यो गर्भदासो भक्तदास ख्यहाच्छुचिः ।’ तथा-“विकित्सको यत्कुरुते तदन्येन न शक्यते । तस्मा चिकित्सकः स्पर्श शुद्धो भवति नित्यश ॥’ इति ॥ २७ ॥ ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रितिब्रह्मचारिदातृब्रह्मविदां तथा ।। २८ ।। दाने विवाहे यज्ञे च संग्रामे देशवेिपुवे । आपद्यपि हेि कष्टायां सद्यःशौचं विधीयते ।। २९ ।। किंच । ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता दीक्षितास्तेषां यज्ञियं यज्ञे भवं कर्म कुर्वतां सद्यःशौचं विधीयत इति सर्वत्रानुषङ्गः । दीक्षितस्य ‘वैतानौपासनाः कार्या' इत्यनेन सिद्धेऽप्यधिकारे पुनर्वचनं यैजमाने स्वयंकर्तृत्वविधानार्थ सद्यःस्नेन विशुद्धयथै चव । सत्रिग्रहणेन संततानुष्ठानतुल्यतयान्नासत्रप्रवृत्ता लक्ष्यंते । मुख्यानां तु सत्रिणां दीक्षितग्रहणेनैव सिद्धेः । ब्रतिशब्देन कृच्छूचान्द्रायणादिप्रवृत्ताः स्वातकवतप्रायश्चित्तप्रवृत्ताश्चो च्यन्ते । तथा ब्रह्मचारिग्रहणेन ब्रह्मचर्यादित्रतयोगिनः श्राद्धकर्तुभत्कुश्च ग्रह णम् । तथा स्मृत्यन्तरम्-‘नित्यमन्नप्रदस्यापि कृच्छचान्द्रायणादिषु । निर्तृत्त कृच्छूहोमादौ ब्राह्मणादिषु भोजने ॥ गृहीतनियमस्यापि नै स्यादन्यस्य कस्यचित् । नमत्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ॥ निमत्रितस्य विप्रस्य स्वाध्यायादिर तस्य च । देहे पितृषु तिष्ठत्सु नाशौचं विद्यते ऋचित् । प्रायश्चित्तप्रवृत्तानां दातृब्रह्मविदां तथा ॥' इति । सत्रिणां ब्रतिनां सत्रे वते च शुद्धिर्न कर्ममात्रे संव्यवहारे वा । तथाच विष्णु –“न व्रतिनां ब्रते न सत्रिणां सत्रे' इति । ब्रह्मचार्युपकुर्वाणको नैष्ठिकश्च । यस्तु नित्यं दातैव न अतिग्रहीता स वैखानसो दातृशब्देनोच्यते । ब्रह्मविद्यतिः । एतेषां च त्रयाणामाश्रमिणां सर्वत्र शुद्धिः । विशेषे प्रमाणाभावातू । दाने च पूर्वसंकल्पितद्रव्यस्य नाशौचम् । “पूर्वसंकल्पितै द्रव्यं दीयमानं न दुष्यति’ इति ऋतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्तः–‘विवाहोत्सवयज्ञादिष्वन्तरा मृतसूतके । शेषमन्त्रं परैर्देयं दातृन्भोक्तश्च न स्पृशेत् ।।' इति । यज्ञे वृषोत्सर्गादौ विवाहे च पूर्वसंभृतसंभारे । तथाच स्मृ त्यन्तरं–‘यज्ञे. संभृतसंभारे विवाहे श्राद्धकर्मणि' इति । सद्यःशौचमत्र प्रकृ तम् । विवाहग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कारकमोपलक्षणम् । यज्ञग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाद्युत्सवमात्रोपैलक्षणम् ।–“न देव प्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्यपि च कष्टायामाशौचम्’ इति विष्णुस्मरणात् संग्रामे युद्धे ।-- १ वरणकरणसंगता ग. वरणाभरणसंभृता ड . २ याजमानेषु ख. ३ लानविध्यर्थ ख खानविशुध्यर्थ तस्मादन्यस्य ख. ५ प्रवृत्त गः ६ त्रोपलक्षणम् ग. ङ. ग. ४