पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः विषमं तस्मिन्नेवातिकालजम् ॥' इति । अयमर्थः-वयसि त्रिवर्षादिरूपे यदा शौचं ‘आदन्तजन्मनः सद्यः' इत्यादिवाक्यविहितं तत्सर्वेषां ब्राह्मणादिवर्णानां तुल्यमविशिष्टम् । अतिक्रान्ते च दृशाहादिके त्र्यहाद् ियदाशौचं तदपि सर्वेषाम विशिष्टम् । उपनीते पुनरुपरते दशद्वादशपञ्चदशत्रिंशद्दिनानीत्येवं विषममाशौचं ब्राह्मणादीनाम् । तस्मिन्नेवोपनीतोपरम एव अतिकालजमतिक्रान्ताशौचं भवति न वयोवस्थाशौचातिक्रम इति ॥ २१ ॥ क्षत्रियादिषु दशरात्रस्य सपिण्डाशौचवस्यापवादमाह क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । त्रिंशदिनानि शूद्रस्य तदर्ध न्यायवर्तिनः ॥ २२ ॥ क्षत्रियवैश्यशूद्राणां सपिण्डजनने तदुपरमे च यथाक्रमेण द्वादशपञ्चदशत्रिं शद्दिनान्याशौचं भवति । न्यायवर्तिनः पुनः शूद्रस्य पाकयज्ञद्विजशुश्रूषादिरतस्य तद्धं तस्य मासस्यार्ध पञ्चदशरात्रमाशौचम् । एवं च त्रिरैशत्रं दशरात्रं वेत्येतद्दश रात्रमाशौचं पारिशेष्याब्राह्मणविषये व्यवतिष्ठते । स्मृत्यन्तरेषु तु क्षत्रियादीनां दृशाहाद्योऽप्याशैौचकल्पा दर्शिताः । यथाह पराशरः–“क्षत्रियस्तु दशा हेन स्वकर्मनिरतः शुचिः । तथैव द्वादशाहेन वैश्यः शुद्धिमवासुयात् ॥' तथाच शातातपः–‘एकादशाहाद्राजन्यो वैश्यो द्वादशभिस्तथा । इन्द्रो विंशतिरा त्रेण शुद्धलेखेत मृतसूतके ॥' वसिष्ठस्तु—‘पञ्चदशरात्रेण राजन्यो विंशतिरात्रेण वैश्य' इति । अङ्गिरास्त्वाह–‘सर्वेषामेव वर्णानां सूतके मृतके तथा । दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रवीत् । ॥' इत्येवमनेकोच्चावचाशौचवकल्पा दर्शिताः तेषां लोके समाचाराभावान्नातीव व्यवस्थाप्रदर्शनमुपयोगीति नात्र व्यवस्था प्रदृश्यैते । यदा पुनब्रह्मणादीनां क्षत्रियाद्यः सपिण्डा भवन्ति तदा हारीताद्युक्ताशौचकल्पोऽनुसरणीयः ।–‘दशाहाच्छुद्धयते विप्रो जन्महानौ स्वयोनिषु । षङ्गिखिभिरथैकेन क्षत्रविट्शूद्योनिषु ।' इति । विष्णुरप्याह

  • क्षत्रियस्य विट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षडू

त्रेण शुद्धिहनवर्णानां तूत्कृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाऽऽशौचव्यप गामे शुद्धिः’ इति । बौधायनेन त्वविशेषेण दृशाह इत्युक्तम्—‘क्षत्रविट्शूद्ध जातीया ये स्युवप्रस्य बान्धवाः । तेषामाशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥' इति । अनयोश्च पक्षयोरपदनापद्विषयत्वेन व्यवस्था । दास्यादीनां तु स्वामि शौचेन स्पृश्यत्वं, कर्मानधिकारत्वं तु मासावधिरेव । तदाहाङ्गिराः-‘दासी दासश्च सर्वो वै यस्य वर्णस्य यो भवेत् । तद्वर्णस्य भवेच्छौचं दास्या मासस्तु सूतकम् ॥’ इति । प्रतिलोमानां त्वाशौचाभाव एव-प्रतिलोमा धर्महीना इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थ मूत्रपुरीषोत्सर्गवत् शैौचं भवत्येव ॥ २२ ॥ १ पुनरुपरमे ख . २ त्रिरात्रं वेति ख. ३ स्वाम्याशौचेन ख. ४ ऽनधिकारस्तु क्र. ङ