पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १] मिताक्षरासहिता । उदकदानस्य स्नानपूर्वकत्वात्स्रात्वोदकं दत्त्वा शुचिर्भवति । तदुक्तं मनुना (५॥७७)–“निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाऽश्रुत्य शुद्धो भवति मानवः ॥’ इति । “पूर्णे दत्त्वोदकं शुचिः' इति प्रेतोदकदानसह चरितस्याशौचकालस्य शुद्धिहेतुत्वविधानात् । जन्मन्यतिक्रान्ताशौचं सपिण्डानां नास्तीति गम्यते । पितुस्तु निर्दशेऽपि जनने स्नानमस्येव । ‘श्रुत्वा पुत्रस्य जन्म च' इति वचनात् । एतच्च पुत्रग्रहणं जन्मनि सपिण्डानामतिक्रान्ताशौचं नास्तीति ज्ञापकम् । अन्यथा ‘निर्दशं ज्ञातिमरणं श्रुत्वा जन्म च निर्देशम्’ इत्येवा वक्ष्यत् । न चोक्तम् । तथाच देवलः–“नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिने ष्वपि’ इति । तस्माद्विपत्तावेवातिक्रान्ताशौचमिति स्थैितम् ॥ केचिदन्यथेमं श्लोकं पठन्ति–‘प्रोषिते कालशेषः स्यादशेषे त्र्यहमेव तु । सर्वेषां वत्सरे पूर्णे प्रेते दत्वोदकं शुचिः ॥’ इति । प्रोषिते प्रेते सर्वेषां ब्राह्मणक्षत्रियादीनामविशेषेण कालशेषः शुद्धिहेतुः । अशेषे पुनरतिक्रान्ते दशाहादौ सर्वेषां ञ्यहमेवाशौचम् । संवत्सरे पूर्णे यदि प्रोषितप्रयाणमवगतं स्यात्तदा सर्वो ब्राह्मणादिः स्नात्वोदकं दत्वा शुचिः स्यात् । तथाच मनुः (५॥७६)–‘संवत्सरे व्यतीते तु स्पृधै वापो विशुद्धयतेि’ इति । अयं च ञ्यहो दशाहादूध्र्व मासत्रयादर्वाग्द्रष्टव्यः । पूर्वोक्तं तु सद्यःशौचं नवममासादूध्र्वमर्वाक्संवत्सराद्रष्टव्यम् । यत्पुनर्वासिष्ठं वचनम्–‘ऊध्वं दशाहाच्छुत्वैकरात्रम्’ इति, तदूध्वे षण्मासेभ्यो यावन्नव मम् । यदपि गौतमवचनम्-‘श्रुत्वा चोध्र्व दशम्याः पक्षिणी' इति, तन्मा सत्रयादूध्र्वमर्वाक्षष्ठात् । तथाच वृद्धवसिष्ठः–‘मासत्रये त्रिरात्रं स्यात्षण्मासे पक्षिणी तथा । अहस्तु नवमाद्र्वागूध्र्व लानेन शुद्धयति ॥' इति । एतच्च मातापितृव्यतिरिक्तविषयम् । ‘पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् ॥’ इति पैठीनसिस्मरणात् । तथाच स्मृत्यन्तरेऽपि–‘महागुरुनिपाते तु आवखोपवासिना । अतीतेऽब्देपि कर्तव्यं प्रेतकार्य यथाविधि ॥’ इति । संवत्सरादूध्र्वमपि प्रेतकार्यमाशौचोदकदानादिर्क काय न पुनः स्नानम त्राच्छुद्धिरित्यर्थः । पितृपल्यामपि मातृव्यतिरिक्तायां स्मृत्य न्तरे विशेषो दर्शितः–*पितृपढ्यामपेतायां मातृवर्ज द्विजोत्तम । संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत् ॥' इति । यस्तु नद्यादिव्यवहिते देशान्तरे मृत स्तत्सपिण्डानां दशाहादूध्र्व मासत्रयाद्वर्वागपि सद्यःशौचम् ।–“देशान्तरमृतं श्रुत्वा झीबे वैखानसे यतौ । मृते स्नानेन शुद्धयन्ति गर्भस्रावे च गोत्रिणः ॥ इति । देशान्तरलक्षणं च बृहस्पतेिनोक्तम् -'महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः । वाचो यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ॥ देशान्तरं वदन्त्येके षष्टियोजनमायतम् । चत्वारिंशद्वदन्त्यन्ये त्रिंशद्न्ये तथैव च । ॥’ इति । इदं चातिक्रान्ताशौचमुपनीतोपरमविषयम् । न पुनर्वयोवस्थाविशेषाशैौचविषयमपि । तथाचोक्तं व्याघ्रपादेन–“तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च । उपनीते तु ३.१३ १ मिति स्थितिः ख. २ प्रोषिते सर्वेषां ख. ३ वैखानसो वानप्रस्थः