पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १ ] मिताक्षरासहिता ३१५ वयोवस्थाविशेषादपि दशाहाद्याशौचस्यापवादमाह अादन्तजन्मनः सद्य आचूडात्रैशिकी स्मृता । त्रिरात्रमात्रतादेशाद्दशरात्रमतः परम् ।। २३ ।। यावता कालेन दन्तानामुत्पत्तिस्तस्मिन्काले अतीतस्य बालस्य तत्संबन्धिनां सद्यः शौचं चूडाकरणादर्वाङ्धृतस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्र व्यापेिन्यशुद्धिः । व्रतादेश उपनयनं ततोऽर्वाकू चूडायाश्चोध्र्वमतीतस्य त्र्यहम शुद्धिः । अत्र चादन्तजन्मनः सद्य इति यद्यप्यविशेषेणाभिधानं तथाप्यद्भिसंस्का राभावे द्रष्टव्यम् ।–अदन्तजाते बाले प्रेते सद्य एव शुद्धिनस्याझिसंस्कारो नोदनक्रिया' इति वैष्णवे अन्निसंस्काररहितस्य सद्यः शौचविधानात् । सति

  • त्वनिसंस्कारे अहस्त्वदत्तकन्यासु बालेषु च' इति वक्ष्यमाण एकाहः । तथाच

यमः–‘अदन्तजाते तनये शिशौ गर्भच्युते तथा । सपिण्डानां तु सर्वेषामहो रात्रमशौचकम् ॥’ इति । नामकरणात्प्राक्सद्यःशौचमेव नियतम् । ‘प्राङ्गाम करणात्सद्यः शुद्धिः’ इति शङ्कस्सरणात् । चूडाँकर्म च प्रथमे तृतीये वा वर्षे स्मर्यते–“चूडाकर्म द्विजातीनां सर्वेषामेव धर्मत । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनातू ॥’ इति स्मरणात् । ततश्च दन्तजननादूध्र्व प्रथमवार्षिक चूडापर्यन्तमेकाहः । तत्र त्वकृतचूडस्य दन्तजनने सत्यपि त्रिवर्ष यावदेकाह एव । तथाच विष्णुः-‘दन्तजातेऽप्यकृतचूडेऽहोरात्रेण शुद्धिः’ इति । तत ऊध्र्व प्रागुपनयात् त्र्यहः । यत्तु मनुवचनम् (५॥६७)-‘नृणामकृतचूडानाम शुद्धिनैशिकी स्मृता । निर्तृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ।।' इति । तस्या प्ययमेव विषयः । यत्तूनद्विवर्षमधिकृत्य तेनैवोक्तम् (५॥६९)–“अरण्ये काष्ठ वत्यक्त्वा क्षेिपेयुख्यहमेव तु’ इति । यच्च वसिष्ठवचनम्–“ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्’ इति, तत्संवत्सरचूडाभिप्रायेण । यत्तु अङ्गि रोवचनम्–‘यद्यप्यकृतचूडो वै जातदन्तश्च संस्थितः । तथापि दाहयित्वैन माशौचं त्र्यहमाचरेत् ॥r” इति, तद्वर्षत्रयादूध्र्व कुंलधर्मापेक्षया चूडोत्कर्षे वेदितव्यम् । “विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस्तु नैशिकी' इति तेनैवाभिहित त्वात् । नचवायमेकाहो दन्तजननाभाव इति शङ्कनीयम् । नहि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्यपि दन्तजनने अकृतचूडस्यैकाहं विदधता विष्णुवचनेन विरोधश्च दुष्परिहरः स्यात् । तस्मात्प्राचीनैव व्याख्या ज्यायसी । यतु कश्यपवचनम्-‘बालानामदन्तजातानां त्रिरात्रेण शुद्धिः’ इति तन्मा तापितृविषयम् । “निरस्य तु पुमाञ्शुक्रमुपैस्पर्शौद्विशुद्धयति । बैजिकादभिसंब रुन्ध्याद्धं व्यूहम् ।' इति जन्यजनकसंबन्धोपाधिकतया त्रिरात्रस्मर णात् । ततश्चायमर्थः–‘प्राङ्गमकरणात्सद्यःशौचं तदूध्र्व दन्तजननाद्दुर्वागन्नि संस्कारक्रियायाँ एकाहः । इतरथा सद्यःशौचम् । जातदन्तस्य च प्रथमवार्षि १ कर्म द्वितीये ख. २ क्षिपेत्तत्रयहमेव क. ३ कुलवर्णधर्मापेक्षया घ. ४ मुपस्पृश्य इति ग