सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ याज्ञवल्क्य स्मृतः । [प्रायश्चित्ताध्याय दयादित्यपरः । यथाह कश्यपः—‘उदिते तु यदा सूर्ये नारीणां दृश्यते रजः । जननं वा विपत्तिर्वा यस्याहस्तस्य शर्वरी ॥ अर्धरात्रावधिः कालः सूतकादौ विधी यते । रात्रिं कुर्याधिभागां तु द्वौ भागौ पूर्व एव तु ॥ उत्तरांशः प्रभातेन युज्यते ऋतुसूतके । रात्रावेव समुत्पन्ने मृते रजसि सूतके ॥ पूर्वमेव दिनं ग्राह्य यावन्नो द्यते रविः ॥’ इति । एतेषां च कल्पानां देशाचवारतो व्यवस्था विज्ञेया । इदं चाशौचमाहिताझेरुपरमे संस्कारदिवसप्रभृति कर्तव्यम् । अनाहितान्नेस्तु मरणदिवसप्रभृति संचयनं तूभयोरिति संस्कारदिवसप्रभृतीति विवेचनीयम् । यथाहाङ्गिराः–“अनग्मित उत्क्रान्तेः साझेः संस्कारकर्मणः । शुद्धिः संचयनं दाहान्मृताहस्तु यथाविधि ॥’ इति । साझेः संस्कारकर्मण इति श्रवणादाहिताद्वैौ। पितरि देशान्तरमृते तत्पुत्रादीनामासंस्कारात्संध्यादिकर्मलोपो नास्तीत्यनुसंधे यम् । तथाच पैठीनसि:-‘अनग्मित उत्क्रान्तेराशौचं हेि द्विजातिषु । दाहादप्तिमतो विद्याद्विदेशस्थे मृते सति ॥' इति ॥ २० ॥ सपिण्डत्वादिना दशाहादिप्रासौ काचिन्मृत्युविशेषेणापवादमाह हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । नृपोऽभिषिक्तः क्षत्रियादिः । गोग्रहणं शृङ्गिदंष्ट्रयादितिरश्चामुपलक्षणार्थम् । विप्रग्रहणमैन्यजोपलक्षणम् । एतैर्हतानां संबन्धिनो ये सपिण्डास्तषाम् । विषोद्वन्धनादिभिः बुद्धिपूर्वमात्मानं ये व्यापादयन्ति ते आत्मघातिनः । आत्म घातिग्रहणं पाखण्डयनाश्रिता इत्येकयोगोपात्तपतितपात्रोपलक्षणार्थम् । तत्संब न्धिनां वान्वक्षमनुगतमक्षमन्वक्षं सद्यः शौचमित्यर्थः । तत्संबन्धिनां च सान्वक्ष यावद्दर्शनमाशौचं न पुनर्दशाहादिकम् । तथाच गौतम –‘गोब्राह्मणहताना मन्वक्षं राजक्रोधाचायुद्धे प्रायोऽनाशकशखाझिविषोदकोद्वन्धनप्रपतनैश्चेच्छताम् इति । क्रोधग्रहणं प्रमादव्यापादितनिरासार्थम् । अयुद्धग्रहणं युद्धहतस्यैकाह माशौचमस्तीति ज्ञापनार्थम् ।–‘ब्राह्मणार्थ विपन्नानां योषितां गोग्रहेऽपि च । आहवेऽपि हतानां च एकरात्रमशौचकम् ॥’ इति स्मरणात् । एतच युद्धकाल क्षतेनैव कालान्तरविपन्नस्य । समरमूर्धनेि हृतस्य पुनः सद्यः शौचम् । यथाह मनुः (५॥९८)–‘उद्यतैराहवे शखैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते । यज्ञस्तथाऽऽशौचमिति.स्थितिः ॥’ इति ॥ ज्ञातयैव जननादेराशौचनिमित्तत्वाज्जन्मदिनादुत्तरकालेऽपि ज्ञाते दशाहादि प्रासावपवादमाह-- प्रोषिते कालशेषः स्यात्पूर्ण दत्त्वोदकं शुचिः ।। २१ ।। प्रोषिते देशान्तरस्थे यत्रस्थेन प्रथमदिवस एव सपिण्डजननादिकं न ज्ञायते तस्मिन्सपिण्डे कालस्य दशाहाद्यवच्छिन्नस्य यः शेषोऽवशिष्टकालः स एव शुद्धिः हेतुर्भवति । पूर्णे पुनराशौचकाले दशाहादिके प्रेतायोदकं दत्त्वा शुद्धिर्भवति । १ यावन्नाभ्युदितो रविः घ. २ यथातिथीति ख. ३ अन्त्यजेति-अन्त्यजादेरप्युपलक्षण मित्यर्थः । अत एवाभ्यर्हितत्वापसैयैव पूर्वनिपातः । ४ शौचमित्यर्थः न पुनः ख