पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः अतिदेशमाह प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां तत्क्षणाच्छुद्धिः परेषां रुानसंयमात् ।। १४ ।। यदेतत्पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म तन्न केवलं ज्ञातीनामपि तु परेषामपि धर्मार्थ प्रेतालंकारनिर्हरणादिकं कुर्वतां भवति । प्रवेशनादिकमित्यत्र आदिशब्दोऽमाङ्गलिकत्वात्प्रतिलोमक्रमाभिप्रायः । तेषां च धमर्थ निर्हरणादौ प्रवृत्तानां तत्क्षणाच्छुद्धिमिच्छतां असपिण्डानां स्रानप्राणायामाभ्यामेव शुद्धिः । यथाह पराशरः–अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । पदेपदे यज्ञ फलमनुपूर्वं लभन्ति ते ॥ न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् । जलाव गाहनात्तेषां सद्यःशौचं विधीयते ॥’ इति । खेहादिना निर्हरणे तु मनूक्तो विशेषः (५॥१०१।१०२ )–“असपिण्डं द्विज प्रेतं विप्रो निर्हत्य बन्धुवत् । विशुद्धयति त्रिरात्रेण मातुरासांश्च बान्धवान् । यद्यन्नमत्ति तेषां तु दशाहेनैव शुद्धयति । अनदन्नान्नमडैव न चेत्तस्मिन्गृहे वसेतू ॥’ इति । अत्रयं व्यवस्था—यः स्नेहादिना शश्वनिर्हरणं कृत्वा तदीयमेवान्नमश्चाति तदृहे च वस ति तस्य दशाहेनैव शुद्धि । यस्तु केवलं तद्भहे वसति न पुनस्तदन्नमश्नाति तस्य त्रिरात्रम् । यः पुनर्निर्हरणमात्रं करोति न तदृहे वसति न चव तदन्नमश्चाति तयैकाह इति । एतत्सजातीयविषयम् । विजातीयविषये पुनर्यजातीयं प्रेतं निर्हरति तज्जातिप्रयुक्तमाशौचं कार्यम् । यथाह गौतम –‘अवरश्चद्वर्णः पूर्व वर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र तच्छवोक्तमाशौचम्’ इति । उपस्पर्शनं निर्हरणम् । विप्रस्य शूद्रनिर्हरणे मासमाशौचम् । शूद्रस्य तु विप्रनिर्हरणे दशरात्रमित्येवं शचवदाशौचं कर्तव्यमित्यर्थ ॥ १४ ।। ब्रह्मचारिणं प्रत्याह आचार्यपिचुपाध्यायान्निर्हत्यापि ब्रतीव्रती । सकटानं च नाक्षीयान्न च तैः सह वसेत् ।। १५ ।। आचार्य उक्तलक्षणः, माता च पिता च पितरौ, उपाध्यायश्च पूर्वोक्तः, एता न्निर्हत्यापि व्रती ब्रह्मचारी ब्रत्येव न पुनरस्य व्रतभ्रंशः । कटशब्देनाशौचं लक्ष्यते तत्सहचरितमझं सकटाझं तद्रह्मचारी नाश्रीयात् । न चाशैौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रतनिर्हरणे तु ब्रह्मचारिणो बतलोप इत्यर्था दुक्तं भवति । अतएव वसिष्ठनोक्तम्--'ब्रह्मचारिणः शवकर्मिणो ब्रतान्नि वृत्तिरन्यत्र मातापित्रोः' इति ॥ १५ ॥ आशीविनाँ नियमविशेषमाह -- क्रीतलब्धाशना भूमौ खपेयुस्ते पृथक् क्षितैौ । पिण्डयज्ञावृता देयं प्रेतायात्रं दिनत्रयम् ॥ १६ ॥ ३ तत्क्षणाच्छुद्धिं ड . २. पृथक्पृथक्. ख