आशौचप्रकरणम् १ ] मिताक्षरासहिता। तत्र संसरणधर्मित्वेन कदलीस्तम्भवदन्तःसाररहिते जलबुडुदवदचेिरविनश्वरे संसारे सारस्य स्थिरस्य मार्गणमन्वेषणं यः करोति स संमूढः अत्यन्तवेिनष्टचित्त तस्मात्संसारस्वरूपवेदिभिर्भवद्भिरित्थं न कार्यम् ॥ ८ ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः । कर्मभिः खशरीरोत्थैस्तत्र का परिदेवना ।। ९ ।। किंच । जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वपफलोपभोगार्थ पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोप भोगनिवृत्तौ पञ्चत्वमागतः पुनः पृथिव्यादिरूपतां प्राप्सस्तत्र भवतां किमर्था परिदेवना । निष्प्रयोजनत्वान्नानुशोचनं कर्तव्यम् । वस्तुस्थितेस्तथात्वात् । नहि केनचिद्वस्तुस्थितिरतिक्रमितुं ॥ ९ ॥ शक्यते गत्री वसुमती नाशमुदधिदैवतानि च । फेनप्रख्यः कथं नाशं मत्यलोको न यास्यति ।। १० ।। अपि च । नेदमाश्चर्य मरणं नाम । यतः पृथिव्यादीनि महान्त्यपि भूतानि नाशं गच्छन्ति । तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथमिवास्थिरतया फेनसंनिभो मरणधर्मा भूतसंधो विनाशं न यास्यति । उचितमेव हि मरणधर्मिणः प्रयाणम् । अतो निष्प्रयोजन शोकसमावेश ॥ १० ॥ अनिष्टापादकत्वादप्यनुशोचनं न कार्यमित्याह श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्गे यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।। ११॥ यस्मादनुशोचद्विबन्धवैर्वदननयननिर्गमितं श्लेष्माश्रु वा यस्माद्वशोऽका मोऽपि प्रेतो भुङ्गे तस्मान्न रोदितव्यं किंतु प्रेतहितेप्सुभिः स्वशक्त्यनुसारेण श्राद्धादिक्रियाः कायः ॥ ११ ॥ इति संश्रुत्य गच्छेयुर्गुहं बालपुरःसराः । विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ।। १२ ।। आचम्याश्यादि सलिलं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ १३ ॥ एवं कुलवृद्धवचाँसेि सम्यगाकण्यै त्यक्तशोकाः सन्तो बालानग्रतः कृत्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियताः संयतमनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा खादित्वा आचमनं च कृत्वाझ्युदकगोमयगौरसर्षपा नालभ्य आदिग्रहणादूर्वाप्रवालमझिवृषभौ वेति शङ्खोक्तौ दूर्वाङ्करवृषभावपि स्पृष्टा अश्मनि च पदं निधाय शनैरस्खलितं वेश्म प्रविशेयुः ॥ १२ ॥ १३ ॥
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२९
दिखावट