पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ० याज्ञवल्क्यस्मृतः । १ अर्चयेद्देवदेवेशं क विधाय पूर्णे संवत्सरे नारायणबलिं कृत्वा सौवर्ण नागं दद्यात् गां च प्रत्यक्षाम् ततः सर्वमौध्र्वदेहेिकं कुर्यात् नारायणबलिस्वरूपं च वैष्णवेऽभिहितं एकादशीं समासाद्य शुङ्कपक्षस्य वै तिथिम् । विष्णु समर्चयेद्देवं यमं वैवस्वतं तथा ।। दश पिण्डान्धृ ताभ्यक्तान्दभेषु मनुसंयुतान् । तिलमिश्रान्प्रदद्याद्वै संयतो दक्षिणामुखः ॥ विष्णं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् । नामगोत्रग्रहं तत्र पुष्पैरभ्यर्चनं तथा धूपदीपप्रदानं च भक्ष्यं भोज्यं तथा परम् । निमम्रयेत विप्रान्वै पञ्च सप्त नवापि वा ॥ विद्यातपःसमृद्धान्वै कुलोत्पन्नान्समाहितान् । अपरेऽहनि संप्राप्त मध्याखे समुपोषितः ॥ विष्णोरभ्यर्चनं कृत्वा विप्रांस्तानुपवेशयेत् । उदङ्खान्यथा ज्येष्ठं पितृरूपमनुस्मरन् मनो निवेश्य विष्णैौ वै सर्व कुर्यादतन्द्रित आवाहनादि यत्प्रोक्तं देवपूर्वं तदाचरेत् तृप्तान्ज्ञात्वा ततो विप्रांस्तृतिं पृष्टा यथाविधि । हविष्यव्यञ्जनेनैव तिलादिसहितेन च पञ्च पिण्डान्प्रदद्याच्च प्रथमं विष्णवे दद्याद्रह्मणे च शिवाय च सैानुचराय चतुर्थ पिण्डमुत्सृजेत् मृतं संकीलयै मनसा गोत्रपूर्वमतः परम् विष्णोर्नाम गृहित्वैवं पञ्चमं पूर्ववक्षिपेतू । विनाचम्य विधिवद्दक्षिणाभि समर्चयेत् ॥ एकं वृद्धतमं विप्र हिरण्येन समर्चयेत् । गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् ॥ ततस्तिलाम्भो विप्रास्तु हतैर्दर्भसमन्वितैः । क्षिपेयुगोंत्रपूर्व तु नाम बुद्धौ निवेश्य व ॥ हवेिर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः । मित्रभृत्य जनैः सार्ध पश्चादुञ्जीत वाग्यत एवं विष्णुमते स्थित्वा यो दद्यादात्मघातिने । समुद्धरति तं क्षिप्र नात्र कार्या विचारणा ॥’ सर्पदंशनिमित्तं सौवर्णनागदानं प्रतिकृतिरूपेण भविष्यत्पुराणे सुमन्तुनाभिहितम्-‘सुवर्णभारनिष्पन्द्रं नागं कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधि धेधवत्पितुरानृण्यमामुयात् ॥’ इति एवमुदकदानं सापवाद्मभिधायानन्तरं किं कार्यमित्यत आह कृतोदकान्समुत्तीर्णान्मृदुशाद्वलसंस्थितान् । रुवातानपवदेयुस्तानितिहासैः पुरातनैः ।। ७ ।। तमुदकदानं यैस्तान्कृतोदकानू स्रातान्सम्यगुदकादुत्तीणन्मृदुशाद्वले नवो द्वततृणचयावृतभूभागे सम्यक्स्थितान्पुत्रादीन्कुलवृद्धाः पुरातनैरितिहासैर्वक्ष्यमा णैरपवदेयुः शोकनिरसनसमथैर्वचोभिबंधयेयु शोकनिरसनसमथैतिहासस्वरूपमाह मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । करोति यः स संमूढो जलबुदुदसंनिभे ।। ८ ।। मनुष्यशब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते तस्य भावो मानुष्यं २ दैवं रूपं ख. ३ [ प्रायश्चित्ताध्यायः ७ ।।