सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १ ] मिताक्षरासहेिता १ रिण: सर्व इति क ३०३ क्रीतमयाचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः । भवेयुरिति शेषः । क्रीतलब्धाशाननियमात्तदलाभेऽनशनमर्थात्सिद्धं भवति । अतएव वसिष्ठः ‘गृहान्त्रजित्वा अधःप्रस्तरे व्यहमनश्चन्त आसीरन् क्रीतोत्पन्नेन वर्तेरन्’ इति । अधःप्रस्तर आशौचिनां शयनासनार्थस्तृणमयः प्रस्तरः । ते च सपिण्डा भूमावेव पृथक्पृथक् शयीरन् न खट्टादौ ॥ मनुनाऽप्यत्र विशेषो दर्शितः (५॥७३) अक्षारलवणाञ्चाः स्युर्निमजेयुश्च ते त्र्यहम् । । मांसाशनं च नाश्रीयुः शयीरैश्च पृथक् क्षितौ ।।' इति । तथा गौतमेनापि विशेष उक्त –“अधःशय्या शायिनो ब्रह्मचारिणैः शवकर्मिणः’ इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावी तित्वादिरूपया प्रेताय दिनत्रयं पिण्डरूपमछं तूष्णीं क्षितौ देयम् । यथाह मरीचिः–‘प्रेतपिण्डं बहिर्दद्याद्दर्भमत्रविवर्जितम् । प्रागुदीच्यां चरुं कृत्वा स्नात प्रयतमानसः ।।' इति । दर्भमब्रविवर्जितत्वमनुपनीतविषयम् । “असंस्कृतान भूमौ पिण्डं दद्यात्संस्कृतानां कुशेषु' इति प्रचेतःस्मरणात् । तथा कर्तनिय मश्च गृह्यपरिशिष्टाद्विज्ञेयः-“असगोत्रः सगोत्रो वा यदि स्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥’ इति । तथा द्रव्यविनियमञ्ध शुनःपुच्छेन दर्शितः–‘शालिना सत्कुभिर्वाऽपि शाकैर्वाऽप्यथ निर्वपेत् । प्रथमे ऽहनि यद्रव्यं तदेव स्याद्दशाहिकम् ॥ तूष्णीं प्रसेवकं पुष्पं च दीपं धूपं तथैव च ॥’ इति । पिण्डश्च पाषाणे देयः । ‘भूमौ माल्यं पिण्डं पानीयमुपले वा दद्युः' इति शङ्खस्मरणात् । नच दद्युरिति बहुवचनेनोद्दुकदानवत्सर्वेः पिण्डदानं कार्यमित्याशङ्कनीयं । किंतु पुत्रेणैव कार्यम् । तदभावे प्रत्यासन्नेन सपिण्डा नामन्यतमेन तदभावे मातृसपिण्डादिना कार्यम् । ‘पुत्राभावे सपिण्डा मातृ सपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्थौं’ इति गौतमस्मरणात् । पुत्र बहुत्वे पुनज्येष्ठनैव कार्यम् । ‘सवैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभत्तेन सवैरेव कृतं भवेत् ॥’ इति मरीचिस्मरणात् । पिण्डसंख्यानि यमश्व-ब्राह्मणस्य दश पिण्डाः क्षत्रियस्य द्वादशैवेति । एवमाशौचदिवससंख्या विष्णुनाऽभिहितम्--'यावदाशौचं प्रेतस्योदकं पिण्डमेकं च दद्युः' इति । तथा स्मृत्यन्तरेऽपि–“नवभिर्देिवसैर्दद्यान्नव पिण्डान्समाहितः । दशमं पिण्डमु त्रमृज्य रात्रिशेषे शुचिर्भवेत् ॥” इति शुचित्ववचनमपरेद्युः क्रियमाणश्राद्धार्थब्रा ह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानमभिहितं अनयोश्च गुरु लघुकंल्पयोरुदकदानविषयोक्ता यवस्था विज्ञेया । अत्रापरः शातातपीयो । विशेषः–‘आशौचस्य तु हासेऽपि पिण्डान्दद्याद्दशैव तु’ इति ॥ त्रिरात्राशैौ विनां पुनः पारस्करेण विशेषो दर्शित –“प्रथमे दिवसे देयाखयः पिण्डा समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥ त्रींस्तु दद्यात्तृतीयेऽह्नि वस्त्रादि क्षालयेत्तथा ॥’ इति ॥ १६ ॥