दण्डो ब्राह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजा परिपालनादिः । निमित्तधर्मो विहिताकरणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः । ‘न हिंस्यात्सर्वा भूतानी'त्याचण्डालं साधारणो धर्म “शौचाचैरांश्च शिक्षये'दित्याचार्यकरणविधिप्रयुक्तत्वाद्धर्मशास्त्राध्ययनस्य प्रयोज नादिकथनं नातीवोपयुज्यते । तत्र चायं क्रमः । प्रागुपनयनात्कामचारकामवा द्रकामभक्षाः । ऊध्र्वमुपनयनात्प्राग्वेदाध्ययनोपक्रमाद्धर्मशास्राध्ययनं, ततो श्रधर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं , ततस्तदर्थजिज्ञासा , ततस्तदर्था नुष्ठानमिति । तत्र यद्यपि धर्मार्थकाममोक्षाः शास्त्रेणानेन प्रतिपाद्यन्ते तथापि धर्मस्य प्राधान्याद्धर्मग्रहणम् । प्राधान्यं च धर्ममूलत्वादितरेषाम् । नच वक्तव्यं धर्ममूलोऽर्थोऽर्थमूलो धर्म इत्यविशेष इति। यतोऽर्थमन्तरेणापि जपतपस्तीर्थयात्रा दिना धर्मनिष्पतिरर्थलेशोऽपि न धर्ममन्तरेणेति । एवं काममोक्षावपीति ॥ १ ॥
एवं पृष्टः किमुवाचेत्याह
मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।
यसिन्देशे मृगः कृष्णस्तसिन्धर्मान्निबोधत ।। २ ।।
मिथिलानाम नगरी तत्रावस्थितः स थाज्ञवल्क्यो योगीश्वरः क्षणं ध्यान्वा किंचित्कालं मनः समाधाय एते श्रवणाधिकारिणो विनयेन पृच्छन्तीति युक्त मेतेभ्यो वतुमित्युक्तवान्मुनीन् । किम् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्नि बोधतेति । कृष्णसारो मृगो यस्मिन्देशे स्वच्छन्दं विहरति तस्मिन्देशे वक्ष्यमाण लक्षणा धर्मा अनुष्टया नान्यत्रेत्यभिप्रायः ॥ २ ॥
शैौचाचारश्च शिक्षये'दित्याचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तद् ध्ययनं कर्तव्यमिति कुतोऽवगम्यत इत्यत आह
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।। ३ ।।
पुराणं ब्राह्मादि । न्यायस्तर्कविद्या । मीमांसा वेदवाक्यविचारः । धर्मशास्त्र मानवादि । अङ्गानि व्याकरणादीनि षट् । एतैरुपेताश्चत्वारो वेदाः । विद्या पुंरुषार्थसाधनानि । तासां स्थानानि च चतुर्दश । धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैरध्येतव्यानि तदन्तैर्भूतत्वाद्धर्मशास्रमप्यध्येत व्यम् । तत्रैर्तानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगान्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथाच शङ्गेन विद्यास्यानान्युपक्रम्योक्तम् ‘एतानि ब्राह्मणोऽधिकुरुते सच वृत्तिं दर्शयतीतरेषाम्’ इति । मनुरपि द्विजा
१ अयमेव पाठी युक्तः । सर्वभूतानि इति ख. पाठः. २ श्रुत्युक्तशौचाचारान् ख. ३ जप तीर्थयात्रा क. ख. ४ पुरुषार्थज्ञानानेि क. पुरुषार्थसाधनज्ञानानि ख. ५ तदन्तर्गतत्वात् क. ६ तत्र ब्राह्मणेनैतानि क