तीनां धर्मशास्त्राध्ययनेऽधिकारो ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति (२॥१६)'निषेकादिश्मशानान्तो मत्रैर्यस्योदितो विधिः । तस्य शाखेऽधिका रोऽस्मिन्ज्ञेयो नान्यस्य कर्हिचित् ॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयखतः । शिष्ये भ्यश्च प्रवक्तव्यं सम्यङ्क नान्येन केनचित् ॥’ इति ॥ ३ ॥ अस्तु धर्मशास्त्रामध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किमायातमित्यत आह-
मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः ।
यमापस्तम्बसंवतः कात्यायनबृहस्पती ॥ ४ ॥
स्थूलाक्षरैः युक्तः भागःपराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्रयोजकाः ।। ५ ।।
उशनःशब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतमिदं धर्मशास्त्रमध्येत व्यमित्यभिप्रायः । नेयं परिसंख्यैौ किंतु प्रदर्शनार्थमेतत् । अतो बौधायनादेरपि धर्मशास्त्रत्वमविरुद्धम् । एतेषां प्रत्येकं प्रामाण्येऽपि साकाङ्गाणामाकाङ्कापरिपूरण मन्यतः क्रियते । विरोधे विकल्पः ॥ ४ ॥ ५ ॥ इदानीं धर्मस्य कारकहेतूनाह -
देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
प्राप्त प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ ६ ॥
देशो ‘यमिन्देशे मृगः कृष्ण’ इत्युक्तलक्षणः । कालः संक्रान्त्यादिः । उपायः शास्रोक्ततिकर्तव्यताकलापः । द्रव्यं प्रतिग्रहादिलब्धं गवादि । श्रद्धा आस्तिक्य बुद्धिस्तदन्वितं यथा भवति तथा । ‘पात्रं न विद्यया केवलये'त्येवमादिवक्ष्यमाण लक्षणम् । प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्यवसानं त्यज्यते । एत द्धर्मस्योत्पादकम् । किमेतावदेव नेत्याह-सकलमेिति । अन्यदपि शास्रोक्तं जाति गुणहोमयागादि तत्सकलं धर्मस्य कारकं, जातिगुणद्रव्यक्रियाभावार्थात्मकं चतु विधं धर्मस्य कारकमित्युक्तं भवति । तच्च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ ६ ॥ इदानीं धर्मस्य ज्ञापकहेतूनाह
श्रुतिः स्मृतिः सदाचारः स्खस्य च प्रियमात्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ।। ७ ।।
श्रुतिर्वेदः । स्मृतिर्धर्मशास्त्रम् । तथाच मनुः (२॥१०)'श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः’ इति । सदाचारः सतां शिष्टानामाचारोऽनुष्टानम् । स्वस्य
१ कस्यचित् क. ख. २ प्रवर्तकाः इति क. पाठः. ३ परिसंख्यानाम एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्यर्थमेकत्र पुनर्वचनम् । एतद्विस्तरोऽग्रे ८१ क्षेोकमिताक्षरायां द्रष्टव्यः. ४ विरोधे तु ख. ५ नुष्ठानं नाशिष्टानाम् ख .