पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः ।

मिताक्षरासंवलिता ।

आचाराध्यायः ।
उपोद्धातप्रकरणम् १
श्रीगणेशाय नमः ।


धर्माधर्मौ तद्विपाकास्रयोऽपि कुशाः पञ्च प्राणिनामायतन्ते ।
यस्मिन्नेतैनों परामृष्ट ईशो यस्तं वन्दे वेिष्णुमकारवाच्यम् ॥ १ ॥
याज्ञवल्क्यमुनिभाषितं मुहुर्विश्वरूपविकटोक्तिविस्तृतम् ।
धर्मशास्रमृजुभिर्मिताक्षरैबलबोधविधये विवेिच्यते ॥ २ ॥

याज्ञवल्क्यशिष्यः कश्चित्प्रश्चोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्मशास्त्रं संक्षिप्य कथयामास-यथा मैनुप्रणीतं भृगुः । यस्य चायमाद्यः श्लोकः-

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽबुवन् ।
वर्णाश्रमेतराणां नो बूहि धर्मानशेषतः ।। १ ।।

योगिनां सनकादीनामीश्वरः श्रेष्ठंस्तं याज्ञवल्क्यं संपूज्य मनोवाक्कायकर्मभिः पूजयित्वा मुनयः सामंश्रवःप्रभृतयः श्रवणधारणयोग्या अबुवन् उक्तवन्तः धर्मा ोऽसभ्यं ब्रूहीति । कथम् । अशेषतः कात्सर्येन । केषाम् । वर्णाश्रमेतराणाम् । वर्णो ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयः, इतरेऽनुलोमप्रतिलोमजाता मूर्धावसिक्तादयः । इतरशब्दस्य ‘द्वन्द्वे च' इति सर्वनामसंज्ञाप्रतिषेधः । अत्रच धर्मशब्दः षङ्किधस्मार्तधैर्मविषयः । तद्यथा-वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्म गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधमों ब्राह्मणो नित्यं मद्य वर्जयेदित्यादिः । आश्रमधर्मोऽझीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो ।


१ जात्यायुर्भगा विपाकाः. २ अविद्याऽस्मितारागद्वेषाभिनिवेशाख्याः कुशा । तत्र सम्यगध्यात्मविद्भिर्दर्शितार्थे विपरीतं शानमविद्या । अहमस्मि मद्विशिष्टः कोऽपि नास्तीत्यभि मानातिशयोऽस्मिता । विपयेष्वासक्ती रागः । दुःखेष्वप्रीतिद्वेषः । अननुभूतादपि मरणादेखा सोऽभिनिवेश इति. ३ मनुनोक्तं ख.४ प्रभुस्तं ख. ५ सोमश्रवादयः क. ६ बूहि कथयेति क. ७ स्मार्तकर्मविषयः. ८ वर्जयेदिति क.