पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तंयप्रकरणम् २३ ] मेिताक्षरासहिता । १ गृहीतव्या मुष्टिरेका घ. नारदस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः पञ्चशतपर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं व्यवस्थापनीय ॥ यत् पुनर्मानवं क्षुद्र द्रव्यगोचरवचनं तन्मूल्याद्विगुणो दम इति तदल्पप्रयोजनशरावादिविषयम् । तथापराधगुरुत्वादपि दण्डगुरुत्वम् । यथा—‘संधिं भित्त्वा तु ये चौर्य रात्रैौ कुर्वति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥’ इत्येवं सर्वेषामानन्यात्प्रतिद्रव्यं वकुमशक्तजतिपरिमाणादिभिः कारणैर्दण्डगुरुलघुभाव कल्पनीयः । पथिकादीनां पुनरल्पापराधे न दण्डः । यथाह मनुः (८॥३४१) –‘द्विजोऽध्वगः क्षीणवृत्तिद्वौचिक्ष द्वे च मूलके । आद्ददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥’ तथा–“चणकत्रीहिगोधूमयवानां मुद्भमाषयो । अनिषिद्वैगृही तव्यो मुष्टिरेकः पथि स्थितैः ॥ तथैव ससमे भक्तं भक्तानि षडनश्ता । अश्वस्तना विधानेन हर्तव्यं हीनकर्मण ॥’ इति ॥ २७५ ॥ अचौरस्यापि चैौरोपकारिणो दण्डमाह भक्तावकाशाग्युदकमत्रोपकरणव्ययान् । दत्त्वा चौरस्य वा हन्तुजनतो दम उत्तमः ॥ २७६ ।। भक्तमशनम् । अवकाशो निवासस्थानम् । अद्भिश्चौरस्य शीतापनोदाद्यर्थः । उदकं तृषितस्य । मत्रश्चौर्यप्रकारोपदेश । उपकरणं चौर्थसाधनम् । व्ययः अपहारार्थ देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपियः प्रयच्छति तस्योत्तमसाहसो दण्ड । चौरोपेक्षिणामपि दोषः–“शक्ताश्च यं उपेक्षन्ते तेऽपि तद्दोषभागिनः ।' इति नारदस्मरणात् ॥ २७६ ॥ शस्रावपाते गर्भस्य पातने चोत्तमो दमः । उत्तमो वाधमो वापि पुरुषस्रीप्रमापणे ।। २७७ ।। किंच । परगात्रेषु शस्रस्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्ड । दासीगर्भनिपातने तु दासीगर्भविनाशकृदित्यादिना शत दण्डोऽभिहितः । ब्राह्मणगर्भवेिनाशे तु ‘हत्वा गर्भमविज्ञातम्’ इत्यत्र ब्रह्म हल्यातिदेशं वेक्ष्यते । पुरुषस्य स्त्रियाश्च प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २७७ ॥ विप्रदुष्टां स्त्रियं चैव पुरुषझीमगर्भिणीम् । सेतुभेदकरीं चाप्सु शिलां बद्धा प्रवेशयेत् ।। २७८ ।। अपिच । विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्री स्वगर्भपातिनी च । या च पुरुषस्य हत्री सेतूनां भेत्री च एता गर्भरहिताः खीर्गले शिलाँ बङ्का अप्सु प्रवेशयेत यथा न वन्ति ॥ २७८ ॥ २८१ २ वक्ष्यति ख-घ .