पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० याज्ञवल्क्यस्मृतेः [ व्यवहाराध्याय दण्डः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं चव नारदेनोक्तम् । ‘मृद्भाण्डासनखङ्का थिदारुचर्मतृणादि यत् । शमीधान्यं कृतान्न च क्षुद्र द्रव्यमुदाहृतम् ॥ वास कौशेयवज्र्य च गोवज्र्य पशवस्तथा । हिरण्यवज्र्य लोहं च मध्यं ब्रीहियवा अपि ॥ हिरण्यरत्रकौशेयस्त्रीपुङ्गोगाजवाजिनः । देवब्राह्मणराज्ञां च द्रव्यं विज्ञेय मुत्तमम् ॥' त्रिप्रकारेष्वपि द्रव्येष्वौत्सर्गिकः प्रथममध्यमोत्तमसाहसरूपो दण्ड नियमस्तेनैव दर्शितः-‘साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति ॥ मृन्मयेषु मणिकमलिकादिषु गोवाजिव्यतिरिक्तषु च महिषमेषादिपशुषु ब्राह्मणसंबन्धिषु च कनकधान्यादिषु तैरतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्कायां मूल्याद्यनुसारेण दण्डः कल्प नीयः । तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशकालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच्च जातिद्रव्यपरिमाणपरिग्रहादीनामुपलक्षणम् । तथाहि । ‘अष्टपाद्य स्तेयकिल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रतिवर्ण विदुषोऽ तिक्रमे दण्डभूयस्त्वम्’ इति । अयमर्थः-किल्बिषशाब्देनात्र दण्डो लक्ष्यते । यस्मिन्नपहारे यो दण्ड उक्तः स विद्वच्छूद्रकर्तृकेऽपहारेऽष्टगुण आपादनीयः । इत रेषां पुनर्विट्क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिषाणि षोडश द्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः । यस्माद्विच्छूद्रादिककर्तृकेष्वपहारेषु दण्डभूयस्त्वम् । मनुनाप्ययमेवार्थो दर्शितः( ८॥३३७॥३३८)-‘अष्टापाद्य तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुण वेदिनः ॥’ इति ॥ तथा परिमाणकृतमपि दण्डगुरुत्वं दृश्यते । यथाह मनु (८॥३२० )–‘धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेष्वेका दशगुणं दाप्यस्तस्य च तद्धनम् ॥’ इति । विंशतिद्रोणकः कुम्भः । हर्तुर्हियमाण स्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालाद्यपेक्षया ताडनाङ्गच्छेदनवधरूपा दण्डा योज्याः ॥ तथा संख्याविशेषादपि दण्डविशेषो रखादिषु । (मनुः ८॥३२१।३२२) सुवर्णरजतादीनामुत्तमानां च वाससाम् । रखानां चैव सर्वेषां शताद्भ्य धिके वधः ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं मूल्या इण्डं प्रकल्पयेत् ॥’ इति ॥ तथा द्रव्यविशेषादपि (८॥३२३)-“पुरुषाणां कुलीनानां नारीणां वा विशेषतः । रखानां चैव सर्वेषां हरणे वधमर्हति ॥ अकुलीनानां तु दण्डान्तरम्–“पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः । ख्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥' इति ॥ क्षुद्रद्रव्याणां तु माषतो न्यूनमूल्यानां मूल्यात्पञ्चगुणो दम ।–‘काष्ठभाण्डतृणादीनां मृण्मयानां तथैव च ॥ वेणुवैणवभाण्डानां तथा स्रायवस्थिचर्मणाम् ॥ शाकानामामूलान हरणे फलमूलयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ पक्रान्नानां कृतान्नानां मैत्स्यानामामिषस्य च । सर्वेषां मूल्यभूतानां मूल्यात्पञ्चगुणो दम ।।' इति १ गोव्यतिरिक्तषु घ . २ तारतम्यभावोऽस्तीति घ. ३ मत्स्याना सवषा