पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ याज्ञवल्क्यस्मृतःि । १ अविज्ञातपुरुषेण ख. विषाशिदां पतिगुरुनिजापत्यप्रमापणीम् । विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ।। २७९ ।। किंच । अगर्भिणीमित्यनुवर्तते । या च परवधार्थमन्नपानादिषु विषं ददाति क्षिपति । या च दाहार्थ ग्रामादिष्वभिं ददाति तथा या च निजपतिगुर्वपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्ठीं कृत्वा अदान्तैर्तुष्टबलीवर्दैः प्रवाह्य मारयेत् । स्तेयप्रकरणे यदेतत्साहसिकस्य दण्डविधानं तत्प्रासङ्गिकमिति मन्तव्यम् ॥२७९॥ अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाह -- अविज्ञातहतस्याशु कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ।। २८० ।। अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः सुताः प्रत्यासन्नबान्ध वाश्च केनास्य कलहो जात इति कलहमाशु प्रष्टव्या । तथा मृतस्य संबन्धिन्यो। योषितो याश्च परपुंसेि रता व्यभिचारिण्यस्ता अपि प्रष्टव्याः ॥ २८० ॥ कथ प्रष्टव्या इत्यत आह स्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः ।। २८१ ॥ किमयं स्रीकामो द्रव्यकामो वृत्तिकामो चा तथा कस्यां किंसंबन्धिन्यां वा स्त्रियामस्य रतिरासीत्, कस्मिन् वा द्रव्ये प्रीतिः, कुतो वा वृत्तिकामः, केन वा सह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक्पृथक् विश्वास्य प्रष्टव्या । तथा मरणदेशनिकटवर्तिनो गोपाऽटविकाद्या ये जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्चैर्हन्तारं निश्चित्य तदुचितो दण्डो विधातव्यः ॥ २८१ क्षेत्रवेश्मवनग्रामविवीतखलदाहका राजपत्यभिगामी च दग्धव्यास्तु कटामिना ।। २८२ ॥ किंच । क्षेत्रं पकफलसस्योपेतम् । वेश्म गृहम् । वनमटवीं क्रीडावनं वा । ग्रामम् । विवीतमुक्तलक्षणम् खलं वा ये दहन्ति ये च राजपत्रीमभिगच्छन्ति तान्सर्वान्कटैवरणमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां मारणदण्डप्रसङ्गाद्दण्ड विधानम् ॥ २८२ ॥ इति स्तयप्रकरणम् । [ व्यवहाराध्यायः