पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ याज्ञवल्क्यस्मृतिः । रूपेणार्धभाजः । ये पुनस्तृतीयिन अच्छावाकनेष्ट्राझीध्रप्रतिहर्तारस्ते तृतीयिनो मुख्यस्यांशस्य षोडशगोरूपेण तृतीयांशेन तृतीयांशभाजः । ये तु पादुिनः ग्राव दुन्नेतृपोतृसुब्रह्मण्याखेते मुख्यभागस्य यश्चतुर्थाशो द्वादशगोरूपस्तद्भाजः ॥ ननु कथमयमंशनियमो घटते, न तावदत्र समयो नापेि द्रव्यसमवायो नापि वचनं यद्वशादीदृग्भागनियमः स्यादतः ‘समं स्याद्दश्रुतत्वादिति न्यायेन सर्वेषां समांशः भाक्त्वं कर्मानुरूपेण चांशभाक्त्वमिति युक्तम् । अत्रोच्यते । ज्योतिष्टोमप्रकृतिके द्वादशाहेऽर्धिनस्तृतीयिनः पादिनः इति सिद्धवदनुवादो न घटते, यदि तत्प्रकृति भूते ज्योतिष्टोमे अर्धतृतीयचतुर्थाशभाक्त्वं मैत्रावरुणादीनां न स्यात्, अतो वैदि कार्द्धिप्रभृतिसमाख्याबलात्प्रागुक्तोंऽशनियमोऽवकल्प्यत इति निरवद्यम् ॥ २६५ ॥ इति संभूयसमुत्थानप्रकरणम् । [ व्यवहाराध्यायः अथ स्तेयप्रकरणम् २३ इदानीं स्तेयं प्रस्तूयते । तलक्षणं च मनुनाभिहितम् (८॥३३२)–- स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं कृत्वापहुवते च यत्’ इति । अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत्परधनहरणादिकं क्रियते तत्साहसम् । तेयं तु तद्विलक्षणं निरन्वयं द्रव्य स्वाम्याद्यसमक्षं वञ्चयित्वा यत्परधनैहरणं तदुच्यते । यच्च सान्वयमपि कृत्वा न मयेदं कृतमिति भयान्निडुते तदपि स्तेयम् ॥ नारदेनाप्युक्तम्—‘उपायैर्विविधै रेषां छलयित्वापकर्षणम् । सुसमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः ॥’ इति ॥ तत्र तस्करग्रहणपूर्वकत्वाद्दण्डस्य ग्रहणस्य ज्ञानपूर्वकत्वातू ज्ञानोपायं तावदाह ग्राहकैगृह्यते चौरो लोप्त्रेणाथ पदेन वा । पूर्वकर्मापराधी च तथा चाशुद्धवासकः ।। २६६ ।। यश्चौरोऽयमिति जनैर्विख्याप्यते असौ ग्राहकै राजपुरुषैः स्थानपालप्रभृति भिर्महीतव्यः । लोप्त्रेणापहृतभाजनादिना वा चौर्यविहेन नाशदिवसादारभ्य चौर्यपदानुसारेण यश्च पूर्वकर्मापराधी प्राक् प्रख्यातचौर्यः । अशुद्धोऽ वा प्राह्यः । प्रज्ञातो वासः स्थानं यस्यासावशुद्धवासकः सोऽपि ग्राह्य ॥ २६६ ॥ अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । छूतस्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ।। २६७ ।। १ नियमो घ. २ पडूयतेच यत् घ. हृत्वापव्ययते इति मनुस्मृतौ पाठः. ३ ग्रहणं घ.