पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतः । [व्यवहाराध्यायः प्रतिषिद्धमाचरता यन्नाशितमनादिष्टमननुज्ञातं वा कुर्वाणेन तथा प्रमादात्प्रज्ञा हीनतया वा येन यन्नाशितं स तत्पण्यं वणिग्भ्यो दद्यात् । यः पुनस्तेषां मध्ये चौरराजादिजनिताब्द्यसनात्पण्यं पालयति स तस्माद्भक्षितात्पण्याद्दशममंशं लभते ॥ २६० अर्धप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् । व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ।। २६१ ।। इयतः पण्यस्येयन्मूल्यमेित्यर्धस्तस्य प्रक्षेपणात् राजतो निरूपणाद्धेतोरसौ मूल्याद्विंशतितममंशं शुल्कार्थ गृह्णीयात् । यत्पुनव्र्यासिद्धमन्यत्र न विक्रेयमिति राज्ञा प्रतिषिद्धं यर्च राजयोग्यं मणिमाणिक्याद्यप्रतिषिद्धमपि तद्राज्ञेऽनिवेद्य लाभलोभेन विक्रीतं चेद्राजगामि मूल्यदाननिरपेक्ष तत्सर्वं पण्यं राजापहरे मेिथ्यावदन्परीमाणं शुल्कस्थानादपासरन् । दाप्यस्त्वष्टगुणं यश्च स व्याजक्रयविक्रयी ।। २६२ ।। यः पुनर्वणिक् शुल्कवञ्चनार्थं पण्यपरिमाणं निहुते शुल्कग्रहणस्थानाद्वापसरति यश्चास्येदमस्येदं वेत्येवं विवादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते वा ते सर्वे पण्यादृष्टगुणं दण्डनीयाः ॥ २६२ ॥ तरिकः स्थलजं शुल्कं गृह्णन्दाप्यः पणान्दश । ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ।। २६३ ।। अपेिच । शुल्कं हि द्विविधं स्थलजं जलजं च । तत्र स्थलजमर्धप्रक्षेप हरेदित्यत्रोक्तम् । जलजं तु मानवेऽभिहितम् (८॥४०४॥५॥७ ॥)–‘पणं यानं तरे दाप्यं पुरुषोऽर्धपणं तरे । पादं पशुश्च योषिञ्च पादार्ध रिक्तकः पुमान् ॥ भाण्डपूर्णानि यानानि तीर्य दाप्यानि सारतः । रिक्तभाण्डानि यत्किंचित्पुमांसश्चापरिच्छदा ॥ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनचैव न दाप्यास्तारिकं नैरा ॥’ इति ॥ शुल्क द्वयेऽप्ययमपरो विशेष –‘न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥’ इति ॥ तीर्यतेऽनेनेति तैरिः नावादिः तज्जन्यशुल्केऽधिकृतस्तरिकः । स यदा स्थलोद्भवं शुल्कं गृह्णाति दशपणान्दण्डनीयः । वेशो वेश्म । प्रतिवेश तदा इतिं स्खवेश्माभिमुखं स्ववेश्मपार्श्वस्थं चोच्यते । तत्र भवाः प्रातिवेश्याः ब्राह्मणाश्च ते प्रातिवेश्याश्च ब्राह्मणप्रतिवेश्याः तेषां श्रुतवृत्तसंपन्नानां श्राद्धादिषु विभवे सत्यनिमञ्ध्रणे एतदेव दशपणात्मकं दण्डनं वेदितव्यम् ॥ २६३ ॥ १ यद्राजयोग्यं ख. २तरे मनुस्मृतौ तरो नावादिः संपूर्णानां इति पाठः. ३ घ. ४