पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभूयसमुत्थानप्र० २२] मिताक्षरासहिता । वेिक्रयानुशयोऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितम् । अधुना तदुभयसाधारणं धर्ममाह क्षयं वृद्धिं च वणिजा पण्यानामविजानता । क्रीत्वा नानुशयः कार्यः कुर्वन्षङ्गागदण्डभाक् ।। २५८ ।। परीक्षितक्रीतपण्यानां ऋयोत्तरकालं क्रयकालपरिमाणतोऽर्घकृतां वृद्धिमप श्यता क्रेत्रा अनुशयो न कार्यः । विक्रेत्रा च महार्धनिबन्धनं पण्यक्षयमपश्यता नानुशयितव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतृविक्रेत्रोरनुशयो भवतीति व्यतिरे कादुक्तं भवति । अनुशयकालावधिस्तु नारदेनोक्तः–‘क्रीत्वा मूल्येन यैः पण्यं दु:क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्वयविक्षतम् । द्वितीयेऽह्नि ददत्क्रेता मूल्यात्रिंशांशमावहेत् । द्विगुणं तु तृतीयेऽह्नि परतः क्रेतुरेव तत् इति । अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्धनानुशयावधिदैशैकपञ्चस साहे'त्यादिना दर्शित एव । तदनया वाचोयुक्तया वृद्धिक्षयपरिज्ञानस्यानुशयका रणत्वमवगम्यते । यथा गाण्यपरीक्षाविधिबलात्पण्यदोषाणामनुशयकारणत्वं अत पण्यदोषतदृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरेऽपि यद्यनुशयं करोति तदा पण्यषङ्कागं दण्डनीयः । अनुशयकारणसद्भावेऽप्यनुशयकालातिक्रमेणानुशयं कुर्वतोऽप्ययमेव दण्डः । उपभोगेनावेिनश्वरेषु स्थराधेष्वनुशयकालातिक्रमेणानुशयं कुर्वतो मनूक्तो दण्डो द्रष्टव्यः (८॥२२३)–“परेण तु दशाहस्य न दद्यान्नापेि दापयेत् । आददानो ददचैव राज्ञा दण्ड्यः शतानि षट् ॥’ इति ॥ २५८ ॥ इति विक्रीयासंप्रदानं नाम प्रकरणम् । २७३ अथ संभूयसमुत्थानप्रकरणम् २२ संभूयसमुत्थानं नाम विवादेपदमिदानीमभिधीयते समवायेन वणिजां लाभार्थ कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ।। २५९ ।। सर्वे वयमिदं कर्म मिलिताः कुर्म इत्येवंरूपा संप्रतिपत्तिः समवायः तेन ये वणिङ्गटनर्तकप्रभृतयो लाभलिप्सवः प्रातिस्विकं कर्म कुर्वते तेषां लाभालाभावु पचयापचयौ यथाद्रव्यं येन यावद्धनं पण्यग्रहणाद्यर्थ दत्तं तदनुसारेणावसेयौ । यद्वा प्रधानगुणभावपर्यालोचनयास्य भागद्वयमयैको भाग इत्येवंरूपया संविदा समयेन यथा संप्रतिपन्नौ तथा वेदितव्यौ ॥ २५९ ॥ प्रतिषिद्धमनादिष्टं प्रमादाद्यच नाशितम् । स तद्दद्याद्विप्युवाच रक्षिताद्दशमांशभाक् ।। २६० ।। किंच । तेषां संभूय प्रचरतां मध्ये पण्यमिदमित्थं न व्यवहर्तव्यमिति १ यत्पण्यं दुष्क्रीतं ख . २ पदमधुना समभिदधाति घ