ण्डपारुष्यप्रकरणम् १९] मिताक्षरासहिता । गृह्णीयादित्येवं पञ्च प्रकारा विधयस्तेनैवोक्ता *विधिः पञ्चविधस्तूक्त एतयोः रुभयोरपि पारुष्ये सति संरम्भादुत्पन्ने कुद्धयोद्वयो स मन्यते यः क्षमते दण्डभाग्योऽति वर्तते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् सोऽप्यसत्कारी पूर्वे तु विनयो गुरु द्वयोरपन्नयोस्तुल्यमनुबश्नाति य स तयोर्दण्डमाझोति पूर्वो वा यदि वेतरः । पारुष्यदोषावृतयोर्युगपत्संप्र वृत्तयोः ॥ विशेषश्चेन्न लक्ष्येत विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डालव्यङ्गेषु वधवृत्तिषु ॥ हस्तिपत्रात्यदासेषु गुर्वाचार्यनृपेषु च मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं कुंयचूर्न विनयभाङ्नृपः ॥ मला हेयते मनुष्याणां धनमेषां मलात्मकम् येद्राजा नार्थदण्डेन दुण्डयेत् ॥’ इति ॥ एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वाद्दण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णयहेतु माह असाक्षिकहते चिद्वैर्युक्तिभिश्चागमेन च द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ॥ २१२ ॥ यदा कश्चिद्रहस्यहमनेन हत इति राज्ञे निवेदयति तदा चिखैर्वणदिस्वरूपग तैर्लिङ्गेर्युक्तया कारणप्रयोजनपर्यालोचनात्मिकया आगमेन जनप्रवादेन चशब्दा द्दिव्येन वा कूटचिह्नकृतसंभावनाभयात्परीक्षा कार्या २ १२ एवं निश्चिते साधनविशेषेण दण्डविशेषमाह भसपङ्करजःस्पर्श दण्डो दशपणः स्मृतः । अमेध्यपाष्णिनिष्ठयूतस्पर्शने द्विगुणस्ततः ।। २१३ ।। समेष्वेव परत्रीषु द्विगुणस्तूत्तमेषु च । हीनेष्वर्धदमो मोहमदादिभिरदण्डनम् ।। २१४ ।। २६१ भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्यसौ दशपणं दण्डं दाप्यः । अमेध्य मिति अश्रुश्रेष्मनखकेशकर्णविट्दूषिकाभुक्तोच्छिष्टादिकं च गृह्यते पादस्य पश्चिमो भाग निष्ठयूतं मुखनिःसारितं जलम् । तैः स्पर्शने ततः पूर्वा द्दशपणाद्विगुणो विंशतिपणो दण्डो वेदितव्य पुरीषादिस्पर्शने पुनः कात्या यनेन विशेष उक्त छर्दिमूत्रपुरीषाद्येरपाद्यः स चतुर्गुणः । षहुणः काय मध्ये स्यान्मूक्षेि त्वष्टगुणः स्मृत इति । आद्यग्रहणाद्वसाशुक्रासृङमज्जानो गृह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्य परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तषु पूर्वोक्ताद्दशपणाद्विंशतिपणाच दण्डाद्वि गुणो दण्डो वेदितव्य हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदम १ कुर्यान्न तद्विनयभाक् ख. २ चिद्वैत्रेणादि ख. ३ द्विगुणः स्मृतः ख.४ न्यूनश्रुतादिषु ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२९१
दिखावट