याज्ञवल्क्यस्मृतः । [व्यवहाराध्यायः पञ्चपणो दशपणश्च वेदितव्यः । मोहश्चित्तवैकल्यम् । मदो मद्यपानजन्योऽवस्था विशेषः । आदिग्रहणाद्रहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्य ।। २१३ ॥ २१४ ॥ प्रातिलोम्यापराधे दण्डमाह विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु । उदणे प्रथमो दण्डः संस्पर्श तु तदर्धिकः ।। २१५ ।। ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्गं करचरणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनमेव । (मनुः ८॥२७९) - येन केनचिदङ्गेन हिंस्याच्छेयांसमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशास नम् ॥’ इति । द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानाद्वैश्यस्यापि क्षत्रियाप कारिणोऽयमेव दण्डस्तुल्यन्यायत्वात् । उद्भणें वधार्थमुद्यते शस्रादिके प्रथम साहसो दण्डो वेदितव्यः । शूद्रस्य पुनरुदूर्णेऽपेि हस्तादिच्छेदनमेव (८॥२८०)- पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति' इति मनुस्मरणात् ॥ उदूरणार्थ शस्रादिस्पर्शने तु तदधिकः प्रथमसाहसादर्धदण्डो वेदितव्य ॥ भस्मादिसंस्पर्श पुनः क्षत्रियवैश्ययोः प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमा इति वाक्पारुष्यो क्तन्यायेन कल्प्यम् । शूद्रस्य तत्रापि हस्तच्छेद् एव । (८॥२८२)-“अवनि ष्टीवतो दपद्वावोष्ठौ छेदयेकृपः । अवमूत्रयतो मेढूमवशर्धयतो गुदम् ॥’ इति मनुस्मरणात् ॥ २१५ः एवं प्रातिलोम्यापराधे दण्डमभिधाय पुनः सजातिमधिकृत्याह उदूर्णे हस्तपादे तु दशविंशतिकौ दमौ । परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ।। २१६ ।। हस्ते पादे वा ताडनार्थमुद्भर्णे यथाक्रमं दशपणो विंशतिपणश्च दण्डो वेदि तव्यः । परस्परवधार्थ शखे उदुणे सर्वेषां वैर्णिनां मध्यमसाहसो दण्ड ॥ २१६ ॥ पादकेशांशुककरोछुश्वनेषु पणान्दश पीडाकर्षाशुकावेष्टपादाध्यासे शतं दमः ।। २१७ ।। किंच । पाद्केशवस्रकराणामन्यतमं गृहीत्वा य उलुञ्चति झटित्याकर्षयतेि असौ दशपणान्दण्ड्यः । पीडा च कर्षश्चांशुकावेष्टश्च पादाध्यासश्च पीडाकर्षा शुकावेष्टपादाध्यासं तस्मिन्समुचिते शतं दण्ड्यः । एतदुक्तं भवति । अंशुकेनाः वेष्टय गाढमापीडयाकृष्य च यः पादेन घट्टयति तं शर्त पणान्दैापयेदिति ॥ २१७ ।। शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः । द्वात्रिंशतं पणान्दण्डयो द्विगुणं दर्शनेऽसृजः ।। २१८ ।। किंच । यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्ठलोष्टादिभिः १ चच्छेष्ठ इति मनुसंमतः पाठ . २ वर्णानां घ. ३ दमयेति ग
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२९२
दिखावट