पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः दश पणान्दण्डनीयः । यः पुनः समर्थः क्षीणशतिं पूर्ववदाक्षिपत्यसैौ पूर्वोक्त शतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेर्मार्थ प्रतिभुवं दापनीयः ॥ २००९ ॥ तीव्राक्रोशे दण्डमाह पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः ग्रंथमसाहसम् ।। २१० ।। पातित्यहेतुभिर्बह्महत्यादिभिर्वणेिनैमाक्षेपे कृते मध्यमसाहसं दण्डः । उपपातः संयुक्त पुनर्गेश्वस्त्वमसीत्येवमादिरूपे क्षेपे प्रथमसाहसं दण्डनीयः ॥ २१० ॥ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ।। २११ ।। किंच । त्रैविद्याः वेदत्रयसंपन्नास्तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनब्रह्मणमूर्धावसिक्ताद्विजातीनां पूगा संघास्तेषामाक्षेपे मध्यमसा हसो दण्डः । ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्य ॥ २१ १ ॥ इति वाक्पारुष्यं नाम विवादपदप्रकरणम् । अथ दण्डपारुष्यप्रकरणम् १९ संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम्---परगात्रेष्वभि द्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥' इति । परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादिग्रहणाङ्कावादिभिर्योऽभि द्रोहो हिँसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद्रजःपङ्कपुरीषाचैश्च य उप घातः संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभय दण्डपारुष्यम् । दण्डयतेऽ नेनेति दण्डो देयस्तेन यत्पारुष्यं विरुद्धाचरणं जङ्गमादेव्यस्य तद्दण्डपारु व्यम् । तस्य चावगोरणादिकारणैभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्य रूपकर्मत्रैविध्यात्पुनखैविध्यं तेनैवोक्तम्—‘तैस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तम क्रमात् । अवगोरणनिःसँङ्गपातनक्षतदर्शनैः ॥ हीनमध्योत्तमानां च द्रव्याणां सम तिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥’ इति । निःसैङ्गपातनं निःशङ्कप्रहरणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव । सहसा कृतानि दण्ड पारुष्याणीत्यर्थः । तथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते तस्य न केवलं दण्डाभावः किंतु पूज्य एव । तथा पूर्व कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुरेव. दण्डभाक्त्वम् । तथा तयोर्द्धयो रपराधविशेषापरिज्ञाने दण्ड समः । तथा श्वपचादिभिरायणंामपराधे कृते सज्जना एव दण्डदापनेऽधिकारिणस्तेषामशक्यत्वे तानू राजा’ घातयेदेव नार्थ १ क्षेमाय घ. २ प्रथमसाहसः घ. ३. वर्णानामाक्षेपे ग.४ संबन्धे तु ध. ५ करणभेदेन ख ६ तस्योपदृष्टं ख . :७ निःशङ्कपातन ,