पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाक्पारुष्यप्रकरणम् १८ ] मिताक्षरासहिता । २५९ द्धीनं पञ्चसप्ततिमेव दण्डमर्हति । मूर्धवसिक्तोऽपि तावाकुश्य तमेव दण्डम र्हति । मूर्धावसिक्ताम्बष्ठयोः परस्परराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमि त्तकौ यथाक्रमेण दण्डौ वेदितव्यौ । एवमन्यत्राप्यूहनीयम् ॥ २०६ ॥ एवं सैवर्णविषये दण्डमभिधाय वर्णानामेव प्रतिलोमानुलोमाक्षेपे दण्डमाह प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ।। २०७ ।। अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादास्तेषु ब्राह्मणा क्रोशकारिणोः क्षत्रियवैश्ययोर्यथाक्रमेण पूर्ववाक्याद्विगुणपदोपात्तपञ्चाशत्पणा पेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा भवति । यथाह मनुः (८॥२६७)-

  • शतं ब्राह्मणमाकुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वध

मर्हति ॥' इति । विट्शूद्वयोरपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया शत मध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य च वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविट्शूद्राणां ब्राह्मणेनाक्रोशे कृते तस्मा ब्राह्मणाक्रोशनिमित्ताच्छतपरिमितात्क्षत्रियदण्डास्प्रतिवर्णमर्धस्यार्धस्य हानिं कृत्वा वशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तदुक्तं मनुना (८॥२६८)–“पञ्चाशङ्कराह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दम ॥’ इति ॥ क्षत्रियेण वैश्ये शूद्रे वाकुटे यथाक्रमै पञ्चाशत्पञ्चविंशतिकौ दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशदित्यूहनी यम् ।–‘ब्राह्मणराजन्यवत्क्षत्रियवैश्ययोः' इति गौतमस्मरणात् ।–“विट्शूद्र योरेवमेव स्वजातिं प्रति तत्त्वतः’ इति (८॥२७७) मनुस्मरणाञ्च ॥ २०७ ।। पुनर्नेिछुराक्षेपमधिकृत्याह बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्तदर्धिकः पादनासाकर्णकरादिषु ।। २०८ ॥ बाह्वादीनां प्रत्येकं वेिनाशे वाचिके वाचा प्रतिपादिते तव बाहू छिनझीत्ये वंरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरादिषु आदिप्रह णात्स्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्ध तदर्ध तद्यस्यास्त्यसै तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २०८ । अशक्तस्तु वदनेवं दण्डनीयः पणान्दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ।। २०९ ।। किंच । य पुनज्र्वरादिना क्षीणशक्तिस्त्वद्वाह्वाद्यङ्गभङ्गं करोमीत्येवं शपत्यसै १ सर्ववर्ण ग. २ पञ्चविंशत्यर्धद्वादश घ. ३ वैश्यस्य चार्धपञ्चाशत् घ