पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ याज्ञवल्क्यस्मृतः । [व्यवहाराध्यायः न्यूनाङ्गाः करचरणादिविकला न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः । रोगिणी दुश्चर्मप्रभृतय । तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । यत्र नेत्रयुगलहीन एषोऽन्ध इत्युच्यते तत्सत्यम् । यत्र पुनश्चक्षुष्मानेवान्ध इत्यु च्यते तदसत्यम् । यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तो त्रम् । एवंविधैर्यः क्षेपं निर्भत्सैनं करोत्यसौ अर्धाधिकत्रयोदशपणान्दण्डनीयः । (मनुः ८॥२७४)-‘काणं वाऽप्यथवा खञ्जनभन्यं वाऽपि तथाविधम् । तथ्येनापि बुवन्दाप्यो दण्ड काषापणावरम् ॥ इति यन्मनुवचनं तदतिदुत्तवर्णवि षयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनै वोक्तम् । (मनुः ८॥२७५)-‘मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयब्शतं दाप्यः पन्थानं चाद्ददुरोः ॥' इति । एतच सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २०४ ॥ अश्लीलाक्षेपे दण्डमाह अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ।। २०५ ।। त्वदीयां भगिनीं मातरं वा अभिगन्तास्मीति शपन्तं अन्यां वा त्वज्जाया मभिगन्तेत्येवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर्यमिन्दण्डे स तथोक्तस्तं दमं दापयेत् ॥ २०५ ॥ एवं समानगुणेषु वर्णेिषु दण्डमभिधाय विषमगुणेषु दण्डं प्रतिपादयि अधेऽधमेषु द्विगुणः परस्त्रीषुत्तमेषु च । अधमेष्वाक्षेप्त्रापेक्षया न्यूनवृत्तादिगुणेष्वधं दण्डः । पूर्ववाक्ये पञ्चविंशते प्रकृतत्वात्तदपेक्षयार्धः सार्धद्वादशपणात्मको द्रष्टव्य । परभार्यासु पुनरविशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितैव्यः । तथोत्तमेषु च स्वापे क्षयाधिकश्रुतवृत्तषु दण्डः पञ्चाशत्पणात्मक एव ॥ वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनामाह-- दण्डप्रणयनं कार्यं कर्णजात्युत्तराधरैः ।। २०६ ।। वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्ताद्या । वर्णाश्च जातयश्च वर्णजातयः । उत्तराश्च अधराश्च उत्तराधराः वर्णजातयश्च ते उत्तराधराश्च वर्णजात्युत्तराधरा तैः वर्णजात्युत्तराधरैः परस्परमाक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयन मूहनं वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति विशेषेणोपादानादुत्तराध रभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा मूर्धावसितं ब्राह्मणाद्धीनं क्षत्रिया दुत्कृष्ट चाकुश्य ब्राह्मणाः क्षत्रियाक्षेपनिमित्तात्प्रञ्चाशत्पणदण्डात्किंचिदधिकं पञ्च ससत्यात्मकं दण्डमर्हति क्षत्रियोऽपि तमाऋश्य ब्राह्मणाक्षेपनिमित्ताच्छतदण्डै १ नेषोऽन्ध इति ख. २ द्रष्टव्यः घ. ३ विशेषोपादानात् ख. ४ दण्डादूनं ख