वाक्पारुष्यप्रकरणम् १८ 1 मिताक्षरासहिता । २५७ मासज्य स ह्येषां विनयः स्मृतः ।।' इति । यानि च मनुवचनानि यूतनिषेध पराणि (मनुः ९॥२२४)–‘यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । ता न्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गितः ॥' इत्यादीनि तान्यपि कूटाक्षदेवन विषयतया राजाध्यक्षसभिकरहितयूतविषयतया योज्यानि ॥ २०२ ॥ द्युतमेकमुखं कार्यं तस्करज्ञानकारणात् । किंच । यत्पूर्वोक्तं यूतं तदेकमुखं एकं मुखं प्रधानं यस्य यूतस्य तत्तथोक्तं कार्यम्.। राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः । तस्करज्ञानकारणात् । तस्करज्ञानरूपं प्रयोजनं पयलिोच्य प्रायशश्चौर्यार्जितधना एव कितवा भवन्त्य तश्चौरविज्ञानार्थमेकमुखं कार्यम् ॥ यूतधर्म समाह्वयेऽतिदिशन्नाह एष एव विधिज्ञेयः प्राणिष्यूते समाह्वये ।। २०३ ।। ग्लहे शतिकवृद्धेरित्यादिना यो यूतधर्म उक्तः स एव प्राणियूते मलमेषमहिषा दिनिर्वत्र्ये समाह्वयसंज्ञके ज्ञातव्य २०३ ॥ इतेि छूतसमाह्वयाख्यं प्रकरणम् । अथ वाचक्पारुष्यप्रकरणम् १८ इदानीं वाक्पारुष्यं प्रस्तूयते । तल्लक्षणं चोक्त नारदेन–‘देवजातिकुला दीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥’ इति । देशादीनामाक्रोशं न्यङ्गसंयुतम् । उचैभौषणमाक्रोशः, न्यङ्गमवद्ययं तदुभययुक्त यत्प्रतिकूलार्थमुद्वेगजननाथै वाक्य तद्वाक्पारुष्य कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति जात्याक्रोशः । क्रूर चरिता ननु वैश्वामित्रा इति कुलाक्षेप । आदिग्रहणात्स्वविद्याशिल्पादिनिन्द्या विद्वच्छिल्पादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थ नेिछुरादिभेदेन त्रैविध्यमभिधाय तलक्षणं तेनैवोक्तम्-‘निष्ठुराश्लीलतीवत्वादपि तत्रिविध स्मृतम् । गौरवानुक्रमात्तस्य दण्डोऽपि स्यात्क्रमादुरुः ॥ साक्षेपं निष्ठुरं ज्ञेयमश्झीलं यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीव्रमाहुर्मनीषिण ॥' इति । तत्र धिङखें जाल्ममित्यादि साक्षेपम् । अत्र न्यङ्गमित्यसभ्यम् । अवद्य भगिन्यादिगमर्न तद्युक्तमश्रीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्त वचस्तीत्रम् ॥ तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाह सत्यासत्यान्यथास्तोत्रैन्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥ २०४ ॥ १ खलु लोलुपाः ख . २ ख. . शिल्पादि घ ३ धिड्यूर्ख जाल्मस्त्वमित्यादि ग.
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८७
दिखावट