पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ याज्ञवल्क्यस्मृतः।। [ व्यवहाराध्यायः परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लः तदाश्रया शतिका शतपरिमिता तदधिकपरिमाणा वा वृद्धिर्यस्यासैौ शतिकवृद्धि । स्तस्मादूर्तकितवात्पञ्चकं शतमात्मवृत्यर्थ सभिको गृह्णीयात् । पञ्चपणा आयो यस्मिन् शते तत्पञ्चकं शतम् । ‘तदस्मिन्वृद्धयायलाभ-' इत्यादिना कन् । जित ग्लहस्य विंशतितमं भागं गृह्णीयादित्यर्थ । सभा कितवनिवासार्था यस्यास्त्यौ सभिकः । कल्पिताक्षादिनिखिलक्रीडोपकरणस्तदुपचितद्रव्योपजीवी सभापतिरु च्यते । इतरस्मात्पुनरपि पूर्णशतिकवृद्धेः कितवादशकं शतं जितद्रव्यस्य दशमं भागं गृह्णीयादिति यावत् । १९९ ॥ एवं कृत्सवृत्तिना सभिकेन किं कर्तव्यमित्याह स सम्यक्पालेितो दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्वाहयजेत्रे दद्यात्सत्यं वचः क्षमी ॥ २०० ।। य एवं कृप्तवृत्तिर्दूताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा संप्रतिपन्नमंशं दद्यात् । तथा जितं यद्रव्यं तदुद्राहयेत् बन्धकग्रहणेनासेधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च तद्धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थ यूतकारिणां दद्यात् । तदुक्तं नारदेन ‘सभिकः कारयेद्दयूतं देयं दद्याच्च तत्कृतम्’ इति ॥ २० ॥ यदा पुनः सभिको दापयितुं न शक्रोति तदा राजा दापयेदित्याह प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा न तु ॥ २०११ ॥ प्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते केितवसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितवमविप्रतिपन्न जितं पर्ण दापयेत् । अन्यथा प्रच्छन्ने सभिकरहिते अद्त्तराजभागे चूंते जितपणं जेत्रे न दापयेत् ॥ २०१ ॥ जयपराजयविप्रतिपत्तौ निर्णयोपायमाह द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । चूतव्यवहाराणां द्रष्टारः सभ्यांस्त एव कितवा एव राज्ञा नियोक्तव्याः । न तत्र श्रुताध्ययनसंपन्ना इत्यादिर्नियमोऽस्ति । साक्षिणश्च यूते यूतकारा एवं कार्याः । न तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधोऽस्ति । कचेिद्दयूतं निषेद्धं दण्डमाह राज्ञा सचिहं निर्वास्याः कूटाक्षोपधिदेविनः ॥ २०२ ।। कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना ये दीव्यन्ति मणिमम्रौषधादिना तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्तः-*कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमाला १ जितं द्रव्यमुद्वाहयेत् ख. २ यूते पणं जेत्रे ख.