यूतसमाह्वयप्रकरणम्१७] मिताक्षरासहिता । किंच । प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस्त्यजति असौ भृते समं भागं दाप्यः । नन्वत्रैव विषये प्रस्थानविकृदित्यादिना द्विगुणभृतिदान मुक्तं, इदानीं ससमो भाग इति विरोधः । उच्यते । भृत्यान्तरोपादानावसरसं भवे स्वाङ्गीकृतं कर्म . यस्त्यजति तस्य ससमो विभागः । यतु प्रस्थानलझसमय एव त्यजति तस्य द्विगुणभृतिदानमित्यविरोधः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश्चतुर्थे भागं दाप्यः । अर्धपथे पुनः सर्व भृतिं दाप्यः । यस्तु त्याजकः कर्मात्यजन्तं याजयति स्वामी पूर्वोक्तप्रदेशेष्वसा वपि पूर्वोक्तससमभागादिकं भृत्याय दापनीयः । एतच्चाव्याधितादिविषयम् । (मनुः ८२१५)-‘मृत्योऽनात न कुर्याद्यो दपत्कर्म यथोचितम् । स दण्ड्य कृष्णलान्यष्टौ न देयं तस्य वेतनम् ॥’ इति मनुवचनात् । यदा पुनव्यधाव पगतेऽन्तरितदिवसान्परिगणय पूरयति तदा लभत एव वेतनम् । (८॥२१६) आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ॥' इति मनुस्मरणात् ॥ यस्त्वपगतव्याधिः स्वस्थ एव वा लस्यादिना स्वारब्धं कर्मालपोनं न करोति परेण वा न समापयति तसै वेतनं न देयमिति । यथाह मनुः (८॥२१७)-‘यथोक्तमार्तः स्वस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥' इति ॥ १९८ ॥ इति वेतनादानप्रकरणम् अथ घृतसमाह्वयप्रकरणम् १७ अधुना यूतसमाह्वयाख्यं विवैौदपदमधिक्रियते । तत्स्वरूपं च नारदेनाभि हितम्–‘अक्षवधशलाकाचैर्देवनं जिह्मकारितम् । पणक्रीडावयोभिश्च पदं यूत समाह्वयम् ॥’ इति । अक्षाः पाशकाः । वधश्चर्मपट्टिका । शलाका दन्तादिमय्यो दीर्घचतुरस्राः । आद्यग्रहणाच्च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते तैरप्राणिभिर्यद्देवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः पक्षभिः कुकुट पारावतादिभिः चशब्दान्मलुमेषमहिषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं यथाक्रमेण यूतसमाह्वयाख्यं विवादपदम् । यूतं च समाह्वयश्च यूतसमाह्वयम् । तदुक्तं मनुना (९॥२२३) -‘अप्राणिभिर्यत्क्रियते तलोके चूतमुच्यते । प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ॥' इति ॥ तत्र यूतसभाधिकारिणो वृत्तिमाह ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयादूर्तकेितवादितराद्दशकं शतम् ॥ १९ ॥ १ वाध्याद्यपगमे ग. २ व्यवहारपदमंधि घ . ३ अक्षबन्ध ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८५
दिखावट