पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ याज्ञवल्क्यस्मृतिः . । यः पुनर्गणस्य ग्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यमपहरति संवित् समयस्तां समूहकृतां रॉजकृतां वा यो लङ्कयेदतिक्रामेत्तदीयं सर्वं धनमपहृत्य स्वराष्ट्राद्विप्रवासयेन्निष्कासयेत् ॥ अयं च दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु (मनुः ८॥२१९॥२२०)-‘यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ निगृह्य दापयेदेनं समय व्यभिचारिणम् । चतुःसुवर्ण षण्निष्काञ्छतमानं चव राजतम् ॥' इति मनुप्रति पादितदण्डानां निर्वासनचतुःसुवर्णषग्निष्कशतमानानां चतुर्णामन्यतमो जाति शक्तयाद्यपेक्षया कल्पनीयः ॥ १८७ ॥ कर्तव्यं वचनं सर्वैः समूहहेितवादिनाम् । गणिनां मध्ये ये समूहहितवादनशीलास्तद्वचनमितरैर्गणानामन्तर्गतैरनुसर [ व्यवहाराध्याय १ राज्ञा कृतां ग. अन्यथा दण्ड इत्याह-- यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥ १८ ॥ यस्तु गणिनां मध्ये समूहहितवाद्विचनप्रतिबन्धकारी स राज्ञा प्रथमसाहसं दुण्डनायः ॥ १८८ ॥ राज्ञा वेत्थं गणिषु वर्तनीयमित्याह समूहकार्य आयातान्कृतकार्यान्विसर्जयेत् । सदानमानसत्कारैः पूजयित्वा महीपतिः ।। १८९ ॥ समूहकार्यनिवृत्त्यर्थ स्वपार्श्व प्रासान्गणिनो निर्वर्तितात्मीयप्रयोजनान्दानमा नसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ १८९ ॥ समूहदत्तापहारिणं प्रत्याह समूहकायेप्रहितो यच्छुभेत तदपेयेत् । एकादशगुणं दाप्यो द्यसौ नार्पयेत्खयम् ।। १९० ।। समूहकार्यार्थ महाजनैः प्रेरितो राजपा यद्धिरण्यवस्रादिकं लभते तदप्रार्थित एव महाजनेभ्यो निवेदयेत् । अन्यथा लब्धादेकादशगुणं दण्डं दापनीयः ॥१९०॥ एवंप्रकाराश्च कार्यचिन्तकाः कार्या इत्याह धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः । कर्तव्यं वचनं तेषां समूहहेितवादिनाम् ।। १९१ ।। श्रौतस्मार्तधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्वलुब्धाः कार्यविचारकाः कर्त व्याः । तेषां वचनमितरैः कार्यमित्येतदादरार्थे पुनर्वचनम् ॥ १९१ ॥ २ हितवदन घ . ३ चैवंगणिषु वर्तितव्यं घ . ४ यद्यसै ख