वेतनादानप्रकरणम् १६] मिताक्षरासहिता । २९५३ इदानीं त्रैविद्यानां प्रतिपादितं धर्म श्रेण्यादिष्वतिदिशन्नाह श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः । भेदं चैषां नृपो रक्षेत्पूर्ववृतिं च पालयेत् ॥ १९२ ।। एकपण्यशिल्पोपजीविनः श्रेणयः । नैगमाः ये वेदस्यासप्रणीतत्वेन प्रामाण्यः मिच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेदस्य प्रामाण्यमेव नेच्छन्ति नझाः सौगतादयः । गणो व्रातः आयुधीयादीनामेककर्मोपजीविनां । 'एषां चतुर्विधा नामप्ययमेच विधियों निजधर्माविरोधेनेत्यादिना प्रतिपादितः । एतेषां च श्रेण्या दीनां भेदं धर्मव्यवस्थानं नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च पालयेत् ॥ १९२ ॥ इति संविध्यतिक्रमप्रकरणम् । अथ वेतनादानप्रकरणम् १६ संप्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदेनो क्तम्--‘भूभृत्यानां वेतनंस्योक्तो दानादानविधिक्रमंः । वेतनस्यानपाकर्म तद्विवा दपदं स्मृतम् ॥' इति । अस्यार्थः-भृत्यानां वेतनस्य वक्ष्यमाणश्लोकैरुक्तो दाना दानविधिक्रमो यत्र विवादपदे तद्वेतनस्यानपाकर्मत्युच्यते । तत्र निर्णयमाह -- गृहीतवेतनः कर्म त्यजन्द्विगुणमावहेत् । अगृहीते समं दाप्यो भृत्यै रक्ष्यं उपस्करः ।। १९३ ॥ गृहीतं वेतनं येनासौ स्वाङ्गीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृतिं स्वामिने दद्यात् । यदा पुनरभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं याव द्वेतनमभ्युपगतं तावद्दाप्यो न द्विगुणम् । यद्वाङ्गीकृतां भृतिं दत्त्वा बलात्कार यितव्यः ।–‘कर्माकुर्वन्प्रतिश्रुत्य कायों दत्त्वा भृतिं बलातू’ इति नारदवच नात् । भृतिरपि तेनैवोक्ता-‘भृत्याय वेतनं दद्यात्कर्मस्वामी यथाक्र मम् । आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् ।।' इति । तैश्च भृत्यैरुप स्कर उँपस्करणं लाङ्गलादीनां प्रग्रहयोक्रादिकं यथाशक्त्या रक्षणीयम् । इतरथा कृष्यादिनिष्पत्त्यनुपपत्तेः ॥ १९३ ॥ धृतिमपरिच्छिद्य यः कर्म कारयति तं प्रत्याह-- दाप्यस्तु दशमं भागं वाणिज्यपशुसख्यतः । अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ।। १९४ ।। १ भूतानां घ. २ भृताय घ. ३ उपकरणं घ. ४ दाप्य इलेतदल्पायासपरम् । आाया सबहुत्वे तु बृहस्पति -“त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः । भक्ताच्छादभृतः सीराद्भागं गृह्णीत पञ्चमम् ॥ जातसस्यात्रिभागं तु प्रगृह्णीयादथांभृतः ॥ भक्तांच्छादभृता ह्यन्नवख्नदानेन पोषितः' । इति
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८३
दिखावट