पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्ताप्रदानिकप्र० १२] मेिताक्षरासहिता । १ धर्मप्रच्युतो घ . स्वं दद्यादित्यनेन दारसुतादेरपि स्वत्वाविशेषेण देयत्वप्रसङ्गे प्रतिषेधमाह दारसुतादृते । नान्वये सति सर्वखं यचान्यसै प्रतिश्रुतम् ।। १७५ ॥ दारसुतादृते दारसुतव्यतिरिक्त स्वं दद्यान्न दारसुतमित्यर्थः । तथा पुत्रपैौ त्राद्यन्वये विद्यमाने सर्व धनं दद्यात् ‘पुत्रानुत्पाद्य संस्कृत्य वृत्तिं चैवैषाँ न । प्रकल्पयेत्’ इति सरणात् । तथा हिरण्यादिकमन्यस्मै प्रतिश्रुतमन्यस्मै न देयम् ॥ १७५ एवं दारसुताव्यतिरिक्तं देयमुक्त्वा प्रसङ्गाद्देयधनग्रहणं च प्रतिग्रहीत्रा प्रकाशमेव कर्तव्यमित्याह प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः । प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । स्थावरस्य च विशेषतः प्रकाशमेव ग्रहणं कार्यम् । तस्य सुवर्णादिवदात्मनि स्थितस्य दर्श यितुमशक्यत्वात् एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरन्नाह देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः ।। १७६ ॥ देयं प्रतिश्रुतं चैव यद्यस्मै धमार्थ प्रतिश्रुतं तत्तस्मै देयमेव यद्यसौ धर्मा प्रच्युतो न भवति । प्रच्युते न पुनर्दतव्यम् । ‘प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्’ इति गौतमस्मरणात् । दत्त्वा नापहरेत्पुनः । न्यायमार्गेण यद्दत्तं तत्ससवि धमपि पुनर्नापहर्तव्यम्, किंतु तथैवानुमन्तव्यम् । यत्पुनरन्यायेन दत्तं तददत्तं षोडशप्रकारमपि प्रत्याहर्तव्यमेवेत्यर्थादुक्तं भवति । नारदेन च–“दत्तं सप्त वेिधं प्रोक्तमदत्तं षोडशात्मकम्’ इति प्रतिपाद्य दत्ताद्त्तयोः स्वरूपं विवृतम् पण्यमूल्यं भृतिस्तुष्टया खेहात्प्रत्युपकारत थ च दत्त दानविदो विदुः ॥ अदत्तं तु भयक्रोधशोकवेगारुगन्वितैः । तथोत्कोचपरीहासव्य त्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् । ॥ अपात्रे पात्रमित्युक्त कार्ये वा धर्मसंहिते । यद्दत्तं स्यादविज्ञानददत्तमिति तत्स्मृतम् ।।' इति । अयमर्थः-पण्यस्य क्रीतः द्रव्यस्य यन्मूल्यं दत्तम्, भृतिर्वेतनं कृतकर्मणे दत्तम्, तुष्टया बन्दिचारणादि भ्यो दत्तम्, खेहादुहितृपुत्रादिभ्यो दत्तम्, प्रत्युपकारतः उपकृतवते अत्युपका ररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थ कन्याज्ञातिभ्यो यद्दत्तम्, यच्चानुग्रहार्थ मदृष्टार्थ दत्तं तदेतत्सप्तविधमपि दत्तमेव न प्रत्याहरणीयम् । भयेन बन्दिग्राहा दिभ्यो दत्तम्, क्रोधेन पुंत्रादिभ्यो वैरनिर्यातनायान्यस्मै दत्तम्, पुत्रवियोगादि निमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्यप्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम्, २. धर्मसंयुते ख . ३ उपकृते घ. २४५ ४ पुत्रादिवैर घ