पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ याज्ञवल्क्यस्मृतिः । प्रत्येकं द्वौ द्वौ पणौ अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति सर्वत्रानु षज्यते । अजाविकमिति समासनिर्देशेऽपि पादं पादमिति वीप्साबलात्प्रत्येकं संबन्धोऽवगम्यते ॥ १७४ ॥ १ दत्तानपाकर्म ख . इति अखामिविक्रयप्रकरणम् । अथ दत्ताप्रदानिकप्रकरणम् १२ अधुना विहिताविहितमार्गद्वयाश्रयतया दैत्तानपकर्म दत्तापदानिकमिति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपद्मभिधीयते । तत्स्वरूपं च नारदेनो क्तम्-‘दत्त्वा द्रव्यमसम्यग्यः पुनरदातुमिच्छति । दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥’ इति । असम्यगाविहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनरा दातुमिच्छति यस्मिन्वैिवादपदे तद्दत्ताप्रदानिकं दत्तस्याप्रदानं पुनर्हरणं यमि न्दानाख्ये तद्दत्ताप्रदानिकं नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रति पक्षभूतं तदेव व्यवहारपदं दत्तानपकर्मत्यर्थादुक्तं भवति । दत्तस्यानपकर्म अपुनरादानाख्यं यत्र दानाख्ये विवादपदे ताद्दत्तानपकर्म । तञ्च देयादेयादि भेदेन चतुर्विधम् । यथाऽऽह नारदः-‘अथ देयमदेयं च दत्तं वाऽदत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विध ।।' इति । तत्र देयमित्यनिषिद्धः दानक्रियायोग्यमुच्यते । अदेयमस्वतया निषिद्धतया वा दानानर्हम् । यत्पुनः प्रकृतिस्थेन दत्तमव्यावर्तनीयं तद्दत्तमुच्यते । अदत्तं तु यत्प्रत्याहरणीयं तत्क थ्यते । तदेतत्संक्षेपतो निरूपयितुमाह स्खं कुटुम्बाविरोधेन देयं स्वमात्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन । कुटुम्बभरणावशिष्टमिति यावत् । तद्दद्यात्। तद्धरणस्यावश्यकत्वात् । यथाऽऽह मनुः (११।१०)-‘वृद्वै च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनु रब्रवीत् ।।' इति ।. खं कुटुम्बाविरोधेनेत्यनेनादेयमेकविधं दर्शयति । स्वं दद्या दित्यनेन चास्वभूतानामन्वाहितयाचितकाधिसाधारणनिक्षेपाणां पञ्चानामप्यदे यत्वं व्यतिरेकतो दर्शितम् ॥ यत्पुनर्नारदेनाष्टविधत्वमदेयानामुक्तम्-*अन्वा हितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदारांश्च सर्वस्वं चान्वये सति ॥ आपत्स्वपि हि कष्टासु वर्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥' इति ण न पुनः स्वत्वा भावाभिप्रायेण । पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां खरूपं प्रागेव प्रपञ्चितम् ॥ [ व्यवहाराध्यायः २ व्यवहारपदे ग . ३ रादानं ग. ४ पुत्रदारं च ग.