पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ याज्ञवल्क्यस्मृतिः । परिहासेनोपहासेन दत्तम् । एकः स्वं द्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै ददाप्ती ति दानव्यत्यासः । छलयोगतः शतदानमभिसंधाय सहस्रमिति परिभाष्य ददाति । बालेनैाप्राप्तषोडशवर्षेण । मूढेन लोकैवादानभिज्ञेन । अस्वतश्रेण पुत्रदासाद्दुना अ । आर्तेन रोगाभिभूतेन । मत्तेन मदनीयमत्तेन । उन्मत्तेन वाति काद्युन्मादग्रस्तेन अपवर्जितं दत्तम्, यथाऽयं मदीयमिदं कर्म करिष्यतीति प्रति लाभेच्छया दत्तम्, अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तम्, यज्ञ करिष्या मीति धनं लब्ध्वा यूतादौ विनियुञ्जानाय दत्तमित्येवं षोडशप्रकारमपि दत्त मदत्तमित्युच्यते । प्रत्याहरणीयत्वात् । अार्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्त विषयम् ।–‘स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ।।' इति । कात्यायनस्मरणात् । तथेदमपरं संक्षिप्तसा र्थवचनं सर्वविवादसाधारणम् ॥ (मनुः ८। १६५)–‘योगाधमनविक्रीतं योगा दानप्रतिग्रहम् । यत्र वाऽप्युपधिं पश्येत्तत्सर्व विनिवर्तयेत् ।।' इति ॥ योग उपाधिः । येनागामिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिवेि गंमे तान् ऋयादीन्विनिवर्तयेदित्यस्यार्थः । यः पुनः षोडशप्रकारमपि अदत्तं गृह्णाति यश्चादेयं प्रयच्छति तयोर्दण्डो नारदेनोक्तः–“गृह्णात्यदत्तं यो लोभा द्यश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छकः ॥' इति ॥ १७६ ।। [ व्यवहाराध्याय इति दत्ताप्रदानिकं नाम प्रकरणम् । अथ क्रीतानुशयप्रकरणम् १३ अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं नारदेनोक्तम्-‘क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्य ते ॥’ इति । तत्र च यस्मिन्नहनि पण्यं क्रीतं तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम् – ‘क्रीत्वा मूल्येन यत्पण्यं दुःक्रीतं मन्यते ऋक्रयी । चित्रेक्रतुः प्रतिदेयं तत्तस्मिन्ने वाह्वयविक्षतम् ॥’ इति । द्वितीयाद्विदिने तु प्रत्यर्पणे विशेषस्तेनैवोक्तः-द्विती येह्नि ददत्क्रेता मूल्यात्रिंशांशर्माहरेत् । द्विगुणं तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥' इति ॥ परतोऽनुशयो न कर्तव्य इत्यर्थ । एतच बीजातिरिक्तोपभोगा द्वेिविनश्वरवस्तुविषयम् बीजादिक्रये पुनरन्य एव प्रत्यर्पणविधिरित्याह दशैकपञ्चसप्ताहमासत्र्यहार्धमासेिकम् । बीजायोवाह्यरखस्त्रीदोह्यपुंसां परीक्षणम् ।। १७७ ।। बीजं व्रीह्यादिबीजम् । अयो लोहंम् । वाह्यो बलीवर्दादिः । रतं मुक्ताप्रवा १ एकोऽपि स्वं द्रव्य ख. २ अप्राप्तव्यवहारेण ग. ३ लोकवेदा घ. ४ मदीयं कर्म ख. ५ धिगमे क्रयादीन् घ. ६ तस्मिन्नेवाहि वीक्षितमिति पाठः ७ मावहेत् ख. ८ लोहादिख.