पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः निर्णेतृत्वम् । यथाऽऽह कात्यायनः–‘स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौर वात् । तत्संसतैस्तु कर्तव्य उद्धारो नात्र संशय ॥ संसक्तसक्तदोषे तु तत्संस क्ताः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्म विजानता ॥' इति । साम न्ताद्यभावे मौलादयो ग्राह्याः । “तेषामभावे सामन्तमौलवृद्धोद्धृतादयः । स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा ॥’ इति कात्यायनेन क्रमैविधा नात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति साधनं । ‘सामन्ताः पूर्व निर्दोषाः स्युर्गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः ॥ इतेि स्मरणात् ॥ तेच साक्षिणः सामन्तादयश्च स्वः स्वः शपथैः शापिताः सन्तः सीमां नयेयुः । (मनुः ८॥२५६)–‘शिरोभिस्ते गृहीत्वोवाँ स्रग्विणो रक्तवाससः । सुकृतैः शापिताः खैः खैर्नयेयुस्ते समंजसम् ॥' इति स्मरणात् । नयेयुरिति बह वचनं द्वयोर्निरासार्थ नैकस्य । ‘एकश्चदुन्नयेत्सीमां सोपवासः समुन्नयेत् । रक्तमा ल्याम्बरधरो भूमेिमादाय मूर्धनि ॥’ इति नारदेनैकस्याभ्यनुज्ञानात् ॥ योऽयं नैकः समुन्नयेत्सीमां नरः प्रत्ययवानपि । गुरुत्वादस्य कार्यस्य क्रियैषां बहुषु स्थिता ॥' इत्येकस्य निषेधः स उभयानुमतधर्मविद्यतिरिक्तविषय इत्यविरोधः ॥ स्थलादिचिह्माभावेऽपि साक्षिसामन्तादीनां सीमाज्ञाने उपायविशेषो नारदे नोक्तः–“निन्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच प्रमाणा द्भोगदर्शनात् ॥’ इति । निन्नगाया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थाना प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानादु त्स्पृष्टनष्टविह्वानां प्राचीनप्रदेशानुमानात् ग्रामादारभ्य सहस्रदण्डपरिमितं क्षेत्रमस्य ग्रामस्य पश्चिमे भागे इत्येवंविधात्प्रमाणाद्वा प्रत्यर्थिसमक्षविप्रतिपन्नाया तैकालोपलक्षितभुक्तवर्वा निश्चिनुयुः ॥ बृहस्पतिना चात्र विशेषो दर्शित आगमं च प्रमाणं च भोगकालं च नाम च । भूभागलक्षणं चैव ये विदुखेते साक्षिणः ॥’ इति । एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुला दिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः (८॥२५४ )-“ग्रामेयककुलानां तु समक्ष सीन्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्रव विवादिनोः ॥' इति । तेच पृष्टाः साक्ष्यादयः ऐकमत्येन समस्ताः सीस्रि निर्णयं चूयु । तैर्निर्णतां सीमां तत्प्रदर्शितसकललिङ्गयुक्ताँ साक्ष्यादिनामान्वितां चाविस्मरणा संमारोपयेत् । उत्तैच मनुना (८॥२६१ )–‘ते पृष्टास्तु यथा बूयुः सैमस्ता सीमि निर्णयम् । निबश्ीयात्तथा सीमां सर्वास्तांश्चैव नामतः ।।' इति । एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्कमणदिनादारभ् य यावत्रिपक्ष राजदैविकव्यसना व्यसनं चेन्नोत्पद्यते तदा तत्प्रदर्शनात्सीमानिर्णयः । अयं च राजदैविकव्यसना वधिः कात्यायनेनोक्तः–‘सीसाचङ्कमणे कोशे पादस्पर्श तथैव च । त्रिप क्षपक्षसप्साहं दैवराजिकमिष्यते ॥' इति ॥ १५२ ॥ १ कुवींत घ. २ दोषेषु ग. ३ क्रमाभिधानात् घ. ४ पलक्षितैर्भक्तवर्वा घ. ५ साक्षिणः ध. ६ सीमानं ख. ७ सीमासंधिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्धयोः इति मनुस्मृतौ पाठ