सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सीमाविवादप्रकरणम् ९] मिताक्षरासहेिता । २३५ यदा त्वमीषामुक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते अथवा प्रति वाद्विनिर्दिष्टाभ्यधिकसंख्यागुणसाक्ष्यन्तरविरुद्धवचनता तदा ते मृषाभाषितया दण्डनीयास्तदाह-- अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अनृते मिथ्यावादने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः । सामन्तविषयता चास्य साक्षि मौलादीनां स्मृत्यन्तरे दण्डान्तरविधानादवगम्यते । यथाऽऽहमनुः (८॥२५७)

  • यथोक्तन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्यु

द्विशतं दमम् ॥' इति ॥ नारदोऽपि–“अथ चेदनृतं ब्रूयुः सामन्ताः सीम निर्णये । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥’ इति सामन्तानां मध्यमसाहसं दण्डमभिधाय-शेषाश्चदनृतं ब्रूयुर्नियुक्ता भूमेिकर्मणि । प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम् ॥' इति तत्संसक्तादिषु प्रथमं साहसमुक्त वान् । मौलादीनामपि तमेव दण्डमाह -“मौलवृद्धादयस्त्वन्ये दण्डगल्या पृथक् पृथक् । विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥ ’ इति । आदिशब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्यपि शाकुनिकादीनां पापरतत्वा लुिङ्गप्रदर्शन एवोपयोगो न साक्षात्सीमानिर्णये तथाऽपि लिङ्गदर्शन एव मृषाभा षित्वसंभवाद्दण्डविधानमुपपद्यत एव । अनृते तु पृथक् दण्डया इत्येतद्दण्डवेि धानमज्ञानविषयम् ॥–“बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भ याद्वा लोभाद्वा दण्ड्यास्तूत्तमसाहसम् ॥’ इति ज्ञानविषये साक्ष्यादीनां का त्यायनेन दण्डान्तरविधानात् । तथा साक्षिवचनभेदेऽप्ययमेव दण्डस्तनैवो त्क्तः–‘कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम्’ इति । एवमज्ञानादि नानृतवदने साक्ष्यादीन्दण्डयित्वा पुनः सीमाविचारः प्रवर्तयेितव्यः । ‘अज्ञानो क्तौ दण्डयित्वा पुनः सीमां विचारयेत्’ इत्युक्त्वा ‘त्यक्त्वा दुष्टांस्तु सामन्ता नन्यान्मौलादिभिः सह । संमिश्य कारयेत्सीमामेवं धर्मविदो विदुः ॥’ इति निर्णयप्रकारस्तेनैवोक्तः ॥ यदा पुनः सामन्तप्रभृतयो ज्ञातारचिह्नानि च न सन्ति तदा कथं निर्णय इत्यत आह अभावे ज्ञातृचिह्नानां राजा सीस्रः प्रवर्तिता ।। १५३ ।। ज्ञातृणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनामभावे राजैव सीन्नः प्रव र्तिता प्रवर्तयिता । अन्तर्भावितोऽत्र ण्यर्थ । ग्रामद्वयमध्यवर्तिनीं विवादास्प दीभूतां भुवं समं प्रविभज्य अस्येयं भूरस्येयमित्युभयोः समप्यै तन्मध्ये सीमा लिङ्गानि कुर्यात् । यदा तस्यां भूमावन्यतरस्योपकारातिशयो दृश्यते तदा १ मिथ्यावदते ग. २ साक्ष्यमौलत्वादीनां घ. या० २३