पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्याय संसृष्टिनः संस्पृष्टीत्यनुवर्तते । अतश्च सोदरस्यसंसृष्टिनो मृतस्यांशं सोदर संसृष्टी संसृष्टानुजातस्य सुतस्य दद्यात् । तदभावे औपहरेदिति पूर्ववत् संबन्धः । एवं च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव संसृष्टी गृह्णाति न भिन्नोदरः संसृष्टयपीति पूर्वोक्तस्यापवादः ॥ १३८ ॥ इदानीं संसृष्टिन्यपुत्रे स्वर्याते संस्कृष्टिो भिन्नोदरस्य सोदरस्य चासंस्मृष्टिन सद्भावे कस्य धनग्रहणमेिति विवक्षायां द्वयोर्विभज्य ग्रहणे कारणमाह अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्टयपि वाऽऽदद्यात्संसृष्टो नान्यमातृजः ।। १३९ ।। अन्योदर्यः सापलो भ्राता संसृष्टी धनं हरेत् न पुनरन्योदर्यो धनं हरेदसं सृष्टी । अनेनान्वयव्यतिरेकाभ्यामन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणमुक्तं भवति । असंस्पृष्टीत्येतदुत्तरेणापि संबध्यते । अतश्चासंस्पृष्टयपि संस्मृष्टिनो धन माददीत । कोऽसावित्यत आह-संस्पृष्ट इति । संस्पृष्टः एकोदरसंसृष्टः । सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणमुक्त, संसृष्ट इत्युत्तरेणापि संबध्यते । तत्र च संस्पृष्टः संस्पृष्टीत्यर्थः । नान्यमातृज । अत्रैवशब्दा ध्याहारेण व्याख्यानं कार्यम्, संसृष्टयप्यन्यमातृज एव संस्मृष्टिनो धनं नाददी तेति । एवं चासंसृष्टयपि वाऽऽदद्यादित्यपिशब्दश्रवणात् संस्पृष्टो नान्यमातृज एवेत्यवधारणनिषेधाच्चासंसृष्टसोदरस्य संस्पृष्टभिन्नोदरस्य च विभज्य ग्रहणं कर्त व्यमेित्युक्तं भवति । द्वयोरपि धनग्रहणकारणस्यैकैकस्य सद्भावात् । एतदेव स्पष्टीकृतं मनुना (९॥२१०)-‘विर्भक्ताः सह जीवन्तो विभजेरन्पुनर्यदि’ इति संसृष्टिविभार्ग प्रक्रम्य (९॥२११॥२१२)–“येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते । सोदर्या विभजेयुस्तं समेत्य सहिताः समम् । भ्रातरो ये च संस्पृष्टा भगिन्यश्च सना भयः ॥’ इति वदता । येषां भ्रातृणां संसृष्टिलां मध्ये ज्येष्ठः कनिष्ठो वा मध्यमो वांशप्रदानतोंऽशप्रदाने । सार्वविभक्तिकस्तसिः । विभागाकाल इति यावत् । हीयेत स्वाँशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथगुद्धरणीयो न संसृष्टिन एव गृहीयुरित्यर्थः । तस्योङ्कतस्य विनियोगमाह-सोदर्या विभजेयुस्तमिति । तमुद्धृतं भार्ग सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूय सैमं न न्यूनाधिकभावेन । ये च भ्रातरो भिन्नोदराः संस्पृष्टास्ते च सना भयो भगिन्यश्च विर्भजेयुः । समं विभज्य गृह्णीयुरिति स्पष्टोऽर्थः ॥ १३९ ॥ पुत्रपढ्यादिसंसृष्टिनां यद्दायग्रहणमुक्तं तस्यापवादमाह-- कीबोऽथ पतितस्तञ्जः पङ्गरुन्मत्तको जडः । अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर्निरंशकाः ॥१४०॥ १ संसृष्टिनो धनं घ. २ दिति संबन्धः घ. ३ भिन्नोदरस्यासंसृष्टिनः सदरस्य च घ ४ मुक्तं । असंसृष्टी ध. ५ निषेधादसंसृष्ट ग. ६ संसृष्टिनो भिन्नोदरस्य च घ. ७ संसृष्टा सहजीवन्त इत्यपि पाठान्तरम्. ८ सममन्यूनाधिक. घ. ९ समं विभजेयुः ख