पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८] मिताक्षरासहिता । वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ।। १३७ ।। वानप्रस्थस्य यतेर्बह्मचारिणश्च क्रमेण प्रतिलोमत्रक्रमेणाचार्यः सच्छिष्यो धर्म भ्रात्रेकतीर्थौ च रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्ठिकः उपकुर्वाणस्य तु धनं मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवादत्वेनाचार्यो गृह्णातीत्यु च्यते । यतेस्तु धनं सच्छिष्यो गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्रश्रवणधारण तदर्थानुष्ठानक्षमः । दुर्वेत्तस्याचार्यादेरपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्म भ्रात्रेकतीर्थ गृह्णाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्म भ्राता चासावेकतीर्थ च धर्मभ्रात्रेकतीर्थी । एतेषामाचायदीनामभावे पुत्रादिषु सत्स्वप्येकतीथ्र्येव गृह्णाति । ननु ‘अनंशास्त्वाश्रमान्तरगताः’ इति वसिष्ठ स्मरणादाश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभाग । नच नैष्ठि कस्य स्वार्जितधनसंबन्धो युक्तः । प्रतिग्रहादिनिषेधात् । ‘अनिचवयो भिक्षु रितिगौतमस्मरणात् । भिक्षोरपि न स्वार्जितैधनसंबन्धसंभवः । उच्यते । वान प्रस्थस्य तावतू–‘अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य निचयं कुर्यात्कृतमाश्वयुजि त्यजेत् ॥’ इति वचनाद्धनसंबन्धोऽस्येव । यतेरपि–‘कौपी नाच्छादनार्थ वैा वासोऽपि बिभृयाञ्च सः । योगसंभारभेदांश्च गृह्णीयात्पादुके इत्याद्विचनाद्वस्रपुस्तकसंबन्धोऽस्त्येव नैष्ठिकस्यापि शरीरयात्रार्थ वस्रादिसंबन्धोऽस्त्येवेति तद्विभागकथनं युक्तमेव ॥ १३७ ॥ इदानीं स्वयतस्य पुत्रस्य पत्याद्यो धनभाज इत्यस्यापवाद्दुमाह संसृष्टिनस्तु संसृष्टी वेिभत्तं धनं पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संस्पृष्टी । संस्पृष्टत्वं च न येन केनापि किंतु पित्रा भ्रात्रा पितृव्येण वा । यथाऽऽह बृहस्पतिः–“विर्भक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थित । पितृव्येणाथवा ग्रीत्या स तत्संस्कृष्ट उच्यते ॥’ इति । तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले अविज्ञातग भयां भार्यायां पश्चादुत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्टयेवापहरे दृह्णीयान्न पत्यादिः ॥ संसृष्टिनस्तु संस्पृष्टीत्यस्यापवादमाह सोदरस्य तु सोदरः । दद्यादपहरेचांशं जातस्य च मृतस्य च ॥ १३८ ॥ १ संबन्धः प्रतिग्रहादिः घ. २ धनसंभवः घ. ३ हि वासोऽपि बिभृयात्तथा क. ४ अत्र वाक्ये पितृभ्रातृपितृव्यैरेव सह संसृष्टता नान्येन । वचनेऽनुपादानादिति मिताक्षरादिषु विभागकर्तृसामानाधिकरण्येनैव सेति युक्तम् । पित्रादिपदानि तु विभागकर्तृमात्रोपलक्ष काणि ‘अर्धमन्तर्वेदी मिनोल्यर्ध बहिर्वेदी'तिवत । अन्यथा वाक्यभेदात् । तेन पलीपितामह भातृपौत्रपितृव्यपुत्रादिभिरपि सह संसृष्टता भवति । विभक्तो य एकत्र स्थितः स संसृष्ट इति सामानाधिकरण्याद्विभक्तभ्रात्रोः पुत्रादीनां न संसर्गः । विद्यमानं भावि वा धनमा वयोः पुनर्विभागावधि साधारणमित्याकारिका बुद्धिरिच्छा वा संसर्गः । व्यवहारमयूख तथा