पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ याज्ञवल्क्यस्मृतेः । [व्यवहाराध्याय ब्राह्मणार्थस्य तन्नाशे दायादश्चन्न कश्चन । ब्राह्मणायैव दातव्यमेनस्वी स्यात्रु पोऽन्यथा ।।' इति ॥ क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे हरेत् । राजा न ब्राह्मणः । यथाऽऽह मनुः (९॥१८९) —‘इतरेषां तु वर्णानां सर्वाभावे हरेनृप’ ईति ॥ १३५ ॥ ॥ १३६ पुत्राः पौत्राश्च दायं गृह्णन्ति तदभावे पत्याद्य इत्युक्तं, इदानीं तदुभ यापवादमाह १ वीरमित्रोदये तु-अत्रायं मृतपुंधनाधिकारक्रम । तत्र प्रथमं पुत्रः तदभावे पौत्र तदभावे प्रपौत्रः । मृतपितृकपौत्रमृतपितृपितामहकप्रपैौत्रयोस्तु पुत्रेण सह युगपदधिकारः । प्रपौत्रपर्यन्ताभावे पली । सा च प्राप्तभर्तृदाया भर्तृकुलं तदभावे पितृकुलं वा समाश्रिता सती शरीररक्षार्थ भर्तृदायं भुञ्जीत । तथा भर्तुरुपकारार्थ यथाकथंचिद्दानादिकमपि कुर्वीत । नतु स्त्रीधनवत्स्वच्छन्दं विनियुञ्जीत । तदभावे दुहिता । तत्र प्रथमं कुमारी तदभावे वा ग्दत्ता तदभावे चोढा । सा च पुत्रवती संभावितपुत्रा च द्वे युगपदेवाधिकारिण्यौ । वन्ध्या विधवा च पुत्रहीना नाधिकारिणी । ऊढाया अभावे दौहित्रः । तदभावे पिता तदभावे भ्राता । तत्रापि प्रथमं सोदरः तदभावे वैमात्रेयः । मृतस्य भ्रातृसंसृष्टत्वे तु सोदरमात्र विषये प्रथमं संसृष्टसोदर एवाधिकारी तदभावे चासंसृष्टसोदर । एवं वैमात्रेयमात्रविषये प्रथमं संसृष्टवैमात्रयः तदभावे चासंसृष्टवैमात्रेयः । यदा तु संसृष्टो वैमात्रेयः सोदरश्च संसृष्टः तदा तावुभौ तुल्यवदधिकारिणौ । भ्रातृणमभावे भ्रातुः पुत्रः । तत्रापि प्रथमं सोदरभ्रातृ पुत्रः तदभावे वैमात्रेयभ्रातृपुत्र । संसर्गे तु सोदरभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टसोदर भ्रातृपुत्रः तदभावे चासंसृष्टसोदरभ्रातृपुत्रः । वैमात्रेयभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टवै मात्रेयभ्रातृपुत्रः । तदभावे चासंसृष्टवैमात्रेयञ्भ्रातृपुत्रः । यदा तु सोदरभ्रातृपुत्रोऽसंसृष्टी वैमात्रेयभ्रातृपुत्रश्च संसृष्टः तदा द्वौ भ्रातृवतुल्याधिकारिणौ । भ्रातृपुत्राभावे तु भ्रातृपौत्रः । तत्रापि भ्रातुः स ोदरासोदरक्रमः संसर्गासंसर्गक्रमश्च बोध्यः । तदभावे पितृदौहित्र । स च सोदरभगिनीपुत्रः तदभावे वैमात्रेयभगिनीपुत्रश्च । तदभावे पितुः सहोदरः । तदभावे पितृवैमात्रेयः। तदभावे पितृसोदरपुत्रपितृवैमात्रेयपुत्रपितृसोदरपौत्रपितृवैमात्रयपौत्राणां क्र मेणाधिकारः । तदभावे पितामहदौहित्रः । तत्रापि पितृसोदरभगिनीपुत्रः वैमात्रेयभगिनी पुत्रश्च । वक्ष्यमाणप्रपितामहदौहित्राधिकारेऽप्येवम् । तदभावे पितामहः । तदभावे पिता मही । तदभावे पितामहसोदरभ्रातृवैमात्रेयभ्रातृतत्पुत्रपौत्रप्रपितामहदौहित्राः क्रमेणाधिका रिणः । एतावत्पर्यन्तानां धनिभोग्यपिण्डदातणां त्वभावे धनिदेयपिण्डभोक्तृणां मातुलादी नामधिकारस्तदभावे धनिमातृष्वस्रीयस्याधिकारः । तदभावे मातुलपुत्रपौत्राणां क्रमेणाधि कारः । तदभावे चाधस्तनसकुल्यानां धनिभेोग्यलेपदातृणां प्रतिप्रणपृप्रभृतिपुरुषत्रयाणां क्रमे णाधिकारः । तदभावे पुनरूध्र्वतनसकुल्यानां धनिदेयलेपभोक्तणां वृद्धप्रपितामहादिसन्त तीवामासतिक्रमेणाधिकारः । तदभावे समानोदकानामधिकारः । तेषामभावे चाचवायेंस्य तदभावे शिष्यस्य तदभावे सद्दवेदाध्याथिब्रह्मचारिणोऽधिकारः । तदभावे चैकग्रामस्थसगो वसमानप्रवरयोः क्रमेणाधिकारः । उक्तपर्यन्तानां सर्वेषां संबन्धिनामभावे ब्राह्मणधनवज्र्य राजा गृह्णीयात् । ब्राह्मणधनं तु त्रैविद्यादिगुणयुक्ता ब्राह्मणा गृह्णीयुः । एवं वानप्रस्थधनं भ्रातृत्वेनानुमतोऽपरो वानप्रस्थं एकतीर्थसेवी गृह्णीयात् । तथा यतिधनं सच्छिष्यः । नैष्ठि कब्रह्मचारिणो धनमाचार्यः । उपकुर्वाणस्य तु ब्रह्मचारिणो धनं पित्रादिगृहीयादिति ज्ञेयम्