सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ याज्ञवल्क्यस्मृतःि । [व्यवहाराध्याय स्यादिति धर्मो व्यवस्थित ।।' इति । तथा वसिष्ठोऽपि “रिक्थलोभान्नास्ति नियोगः’ इति रिक्थलोभान्नियोगं प्रतिषेधयन् नियोगद्वारक एव पडयाः धनसं बन्धो नान्यथेति दर्शयति । नियोगाभावेऽपि पत्या भरणमात्रमेव नारदवच नात “भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्’ इति । योगीश्वरेणापि किल वक्ष्यते—‘अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्य प्रतिकूलास्तथैव च । ॥' इति । अपि च । द्विजातिधनस्य यथार्थत्वात्स्त्रीणां च यज्ञेऽ नधिकाराद्धनग्रहणमयुक्तम् तथा च केनापि स्मृतम्--'यज्ञार्थे द्रव्यमु त्प तत्रानधिकृतास्तु ये । अरिक्थभाजस्ते सर्वे ग्रासाच्छादनभाजनाः ॥ यज्ञार्थ विहितं वित्तं तस्मात्तद्विनियोजयेत् । स्थानेषु धर्मजुटेषु न स्रीमूर्खविधर्मिषु ॥ इति । तदनुपपन्नम् । “पली दुहितरः' इत्यत्र नियोगस्याप्रतीतेरप्रस्तुतत्वाच्च । अपिचेदमत्र वक्तव्यम् । पत्याः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नमपत्यं वा । तत्र नियोगस्यैव निमित्तत्वे अनुत्पादितपुत्राया अपि धनसंबन्धः प्रामोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्तोति । अथ तदपत्यस्यैव निमित्तत्वं तथा सति पुत्रस्यैव धनसंबन्धात्पलीति नारब्धव्यम् ॥ अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् । तद् प्यसत् मनुः ९॥१९४)-‘अध्ययध्यावहानिकं दत्तं च भ्रातृमातृपितृप्रासं षङ्किधं स्त्रीधनं स्मृतम् ॥' इत्यादिविरोधात् । किंच पुत्राभावे “पली दुहितरः' इत्यारब्धम् । तत्र नियुक्ताथा धनसंबन्धं वदता क्षेत्र जस्यैव धनसंबन्धं उत्क्तो भवति । सच प्रागेवाभिहित इति ‘अपुत्रप्रकरणे पवीति नारब्धव्यम् । ‘अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन्स्त्री वाऽनपत्यस्य बीजं वा लिप्सेत’ इति गौतमवचनान्नियुक्ताया धनसंबन्ध इति । तदप्यसत् । नहि यदि बीजं लिप्सेत तदाऽनपत्यस्य स्त्री धनं गृह्णीयादित्ययमथेऽस्मात्प्रतीयते । किंतु ‘अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन्स्री वा स स्री बीज वा लिप्सेत संयता वा भवेत्’ इति तस्या धर्मान्तरोपदेश प्रक्षान्तरवचनत्वेन यद्यर्थाप्रतीतेः । अपिच संयताया एव धनग्रहणं युक्तं न नियुक्तायाः स्मृतिलोकनिन्दिताया अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पख्येव दद्यात्तत्पिण्डं कृत्स्रमंशं लभेत च ॥’ इति संयताया एव धन ।। तथा नियोगश्च निन्दितो मनुना (९॥६४)–‘नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः सना तनम् ॥' इत्यादिना । यत्तु वसिष्ठवचनम् ‘रिक्थलोभान्नास्ति नियोगः’ इति तदविभक्ति संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वाप त्यस्य ' धनसंबन्धार्थ नियोगो न कर्तव्य इति व्याख्येयम् । यदपि नारद वचनम्--'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्’ इति, तदपि ‘संस् १ संबन्धो युक्तो घ. २ सा बीजं वा घ. ३ संसृष्टिनां तु घ