पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८ ] मिताक्षरासहिता २१९ ष्टानां तु यो भागस्तेषामेव स इष्यते' इति संसृष्टानां प्रस्तुतत्वात्तत्स्त्रीणामनप त्यानां भरणमात्रप्रतिपादनपरम् नच ‘भ्रातृणामप्रजाः प्रेया'दित्येतस्य संसृष्टि विषयत्वे ‘संस्पृष्टानां तु यो भाग' इत्यनेन पैौनरुक्तयमाशङ्कनीयम् । यतः पूर्वोक्ति विवरणेन स्रीधनस्याविभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । यदपि ‘अपुत्रा योषितचैषाम्’ इत्यादिवचनं तत् झीबादिस्त्रीविषयमिति वक्ष्यते । यत्तु द्विजाति धनस्य यज्ञार्थत्वात्स्त्रीणां च यज्ञे नधिकाराद्धनग्रहणमयुक्त'मिति, तदसत् । सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धे अथ धर्मत्वात्तदर्थत्वमविरुद्धमिति मतम् एव तह्य र्थकामयोर्धनसाध्ययोरसिद्धिरेव स्यात् तथा सति धर्ममर्थं च कामं च यथाशक्ति न हापयेत्’ । तथा ‘न पूर्वाह्ममध्यन्दिनापराह्यानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्य तथा ‘न तथैतानि शक्यन्ते संनियन्तुमसेवया’ इत्यादियाज्ञ वल्क्यगौतममनुवचनविरोध अपिच धनस्य यज्ञार्थत्वे हिरण्यं धार्य मिति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वमुक्तं तत्प्रत्युद्धदृतं स्यात् । किंच यज्ञशब्दस्य धर्मोपलक्षणपरत्वे स्रीणामपि पूर्तधर्माधिका न स्त्री स्वातन्त्रयमर्हति’ इत्यादि तदस्तु पारतत्रय धनस्वीकारे तु को विरोधः ॥ कथं तर्हि ‘यज्ञार्थ द्रव्यमुत्प यज्ञार्थमेवार्जितं यद्धनं तद्यज्ञ एव नियो क्तव्यं पुत्रादिभिरपी'त्येवं परं तत् । यज्ञार्थ लब्धमददद्भासः काकोऽपि वा। भवेत्’ इति दोषश्रवणस्य पुत्रादिष्वविशेषात् । यदपि कात्यायनेनोक्तम् अर्देयिकं राजगामि योषिदुल्यौध्र्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्य स्तदर्पयेत् ॥’ इति । दायिक दायादरहितं यद्धनं तद्राजगामि राज्ञो भवति योषिद्वत्यौध्र्वदेहिकमपास्य, तत्स्त्रीणामशनाच्छादनोपयुक्त औध्र्वदेहिकं धनिन श्राद्धाद्युपयुक्त चापरस्य परिहृत्य राजगामि भवतीति संबन्धः । उत्तराधे । श्रोत्रियद्रव्यं च योषिद्वत्यौध्र्वदेहिकमपास्य श्रोत्रियायोपपादये'दिति तदप्यवरुद्धरुखीविषयम् ।. योषिड्हणात् । नारदवचनं अन्यत्र ब्राह्मणाः त्किंतु राजा धर्मपरायण तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥' इत्यः वरुद्धस्रीविषयमेव । स्त्रीशब्दग्रहणात् । इह तु पतीशब्दादूढायाः संयताया धन ग्रहणमविरुद्धम् । तस्माद्विभक्तासंसृष्टिन्यपुत्रे स्वर्याते पली धनं प्रथमं गृह्णाती त्ययमर्थः सिद्धो भवति । विभागस्योक्तत्वात्संसृष्टिनां तु वक्ष्यमाणत्वात् । एते नाल्पधनविषयत्वं श्रीकंरादिभिरुत्तं निरस्तं वेदितव्यम् तथा ह्यौरसेषु पुत्रेषु सत्स्वपि जीवद्विभागे अजीवद्विभागे च पढ्या कुर्यात्समानंशान् पख्यः कार्याः समांशिकाः' इति । तथा—‘पितुरूध्र्व विभजतां माताप्यंशं समं हरेतू’ इति च, त थासत्यपुत्रस्य स्वर्यातस्य धनं पली भरणादति रिक्तं न लभत इति व्यामोहमात्रम् अँथ ‘पल्यः कार्याः समाँशिका' इत्यत्र १ संसृष्टिनां तु घ. २ वक्ष्यति घ. दिष्वप्यविशेषात् घ. ४ श्रोत्रिय ख. घ. ६ श्रीकरादिभिः घ. ७ तथा पल्ल्यः घ